||Sundarakanda ||

|| Sarga 58||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ अष्टपंचाशस्सर्गः॥

ततः तस्य गिरेः शृज्ञ्गे महेन्द्रस्य महाबलाः।
जनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्॥1||

तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम्।
जाम्बवान्कार्यवृत्तान्तं अपृच्छदनिलात्मजम्॥2||

कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते।
तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः॥3||

तत्त्वतः सर्वमेतन् नः प्रब्रूहि त्वं महाकपे।
श्रुतार्थाः चिन्तयिष्यामो भूयः कार्यविनिश्चयम्॥4||

यश्चार्थः तत्र वक्तव्यो गतैरस्माभिरात्मवान्।
रक्षितं च यत् तत्र तद्भावान्व्याकरोतु नः॥5||

स नियुक्तः ततः तेन संप्रहृष्टतनूरुहः।
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत॥6||

प्रत्यक्षमेव भवतां महेन्द्राsग्रात् खमाप्लुतः।
उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः॥7||

गच्छतश्च हि मेघोरं विघ्नरूपमिवाभवत्।
कांचनं शिखरं दिव्यं पश्यामि सुमनोहरम्॥8||

स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्।
उपसंगम्य तं दिव्यं कांचनं नगसत्तमम्॥9||

कृता मे मनसा बुद्धिर्भेतव्योsयं मयेति च।
प्रहतं च मया तस्य लांगूलेन महागिरेः॥10||

शिख्रं सूर्य संकासं व्यशीर्यत सहस्रथा।
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः॥11||

पुत्रेति मधुरां वाणीं मनः पह्लादयन्निव।
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः॥12||

मैनाकमिति विख्यातं निवसन्तं महादधौ।
पक्षवन्तः पुरा पुत्त्र बभूवुः पर्वतोत्तमाः॥13||

छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः।
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः॥14||

चिच्छेद भगवान् वृक्षान् वज्रेणैषां सहश्रसः।
अहं तु मोक्षितः तस्मात् तवपित्त्रा महात्मना॥15||

मारुतेन तदावत्स प्रक्षिप्तोsस्मि महार्णवे।
रामस्य च मया साह्ये वर्तितव्य मरिन्दम॥16||

रामो धर्मभृतां श्रेष्टो महेन्द्रसमविक्रमः।
एत च्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः॥17||

कार्यमावेद्य तु गिरे रुद्यतं च मनो मम।
तेन चाsह मनुज्ञातोमैनाकेन महत्मना ॥18||

स चाप्यस्तर्हितः शैलो मानुषेण वपुष्मता।
शरीरेण महाशैलःशैलेन च महादधौ॥19||

उत्तमं जवमास्थाय शेषं पन्थान मवस्थितः।
ततोsहं सुचिरं कालं वेगेनाभ्यगमं पथि॥20||

ततः पश्याम्यहं देवीं सुरसां नागमातरं।
समुद्र मध्ये सा देवीवचनम् मां अभाषत॥21||

ममभक्षः प्रदिष्टत्वं अमरैर्हरिसत्तम।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे॥22||

एवमुक्तः सुरसया प्रांजलिः प्रणतः स्थितः।
विषण्णवदनो भुत्वा वाक्यं चेदमुदीरयम्॥23||

रामो दाशरथिः श्रीमान् प्रविष्टोदण्डकावनम्।
लक्ष्मणेन सहभ्रात्रा सीताया च परन्तपः॥24||

तस्य सीता हृता भार्या रावणेन दुरात्मना।
तस्यास्सकाशं दूतोsहं गमिष्ये रामशासनात्॥25||

कर्तुमर्हसि रामस्य साहाय्यं विषये सती।
अथवा मैथिलीं दृष्ट्वा रामं च क्लिष्टकारिणम्॥26||

आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते।
एवमुक्ता मया सातु सुरसा कामरूपिणी॥27||

अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम।
एवमुक्त्वा सुरसया दशयोजनमायतः॥28||

ततोर्थगुणविस्तारो बभूवाहं क्षणेन तु।
मत्प्रमाणानुरूपं च व्यादितं च मुखं तया॥29||

तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः।
तस्मिन्मुहूर्ते च पुनर्भभूवांगुष्ठमात्रकः॥30||

अभिपत्याशु तद्वक्त्रं निर्गतोsहं ततः क्षणात्।
अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः॥31||

अर्थ्यसिद्धै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्।
समानयच वैदेहीं राघवेण महात्मना॥32||

सुखीभवमहाबाहो प्रीताsस्मि तव वानर।
ततोsहं साधु साध्विति सर्वभूतैः प्रशंशितः॥33||

ततोन्तsरिक्षं विपुलं प्लुतोsहं गरुडो यथा।
चायामे निगृहीता च न च पश्यामि किंचन॥34||

सोsहं विगतवेगस्तु दिशोदश विलोकयन्।
न किंचित् तत्र पश्यामि येन मेsपहृता गति॥35||

ततो मे बुद्धिरुत्पन्ना किन्नाम गगने मम।
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते॥36||

अधो भागेन मे दृष्टिः शोचता पातिता मया।
ततोsद्राक्ष महं भीमां राक्षसीं सलिलेशयाम्॥37||

प्रहस्य च महानाद मुक्तोsहं भीमया तया।
अवस्थित मसंभ्रान्त मिदं वाक्यमशोभनम्॥38||

क्वासि गन्ता महाकाया क्षुधिताया ममेप्सितः।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्॥39||

बाढमित्येन तां वाणीं प्रत्यगृह्णा महं ततः।
अस्य प्रमाणा दधिकं तस्याः काय मपूरयम्॥40||

तस्याश्चास्यं महद्भीमं वर्धते ममभक्षणे।
न च मां सादु बुबुधे मम वा विकृतं कृतम्॥41||

ततोsहं विपुलं रूपं संक्षिप्य निमिषान्तरात्।
तस्या हृदय मादाय प्रपतामि नभस्थ्सलम्॥42||

सा विसृष्टभुजा भीमा पपात लवणांभसि।
मया पर्वतसंकाशा निकृत्त हृदया सती॥43||

शृणोमि खगतानां च सिद्धानां चारणैः सह।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता॥44||

तां हत्वा पुनरेवाsहं कृत्य मात्ययिकं स्मरन्।
गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम्॥45||

दक्षिणं तीर मुदधेर्लंका यत्र च सा पुरी।
अस्तं दिनकरे याते रक्षसां निलयं पुरम्॥46||

प्रविष्टोsहं अविज्ञातो रक्षोभिर्भीमविक्रमैः।
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा॥47||

अट्टहासं विमुंच्यन्तीनारीका प्युत्थिता पुरः।
जिघां सन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्॥48||

सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्।
प्रदोषकाले प्रविशन् भीतयाsहं तयोदितः॥49||

अहं लंकापुरी वीरनिर्जिता विक्रमेण ते।
यस्मात्तस्माद्विजेतासि सर्वरक्षां स्यशेषतः॥50||

तत्रहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम्।
रावणांतः पुरगतो न चापश्यं सुमध्यमाम्॥51||

ततस्सीता मपश्यं स्तु रावणस्य निवेशने।
शोकसागरमासाद्य न पार मुपलक्षये॥52||

शोचता च मयादृष्टं प्राकारेण समावृतम्।
कांचनेन विकृष्टेन गृहोपवनमुत्तमम्॥53||

सप्राकार मवप्लुत्य पश्यामि बहुपादपम्।
अशोकवनिकामध्ये शिंशुपापादपोमहान्॥54||

तमारुह्य च पश्यामि कांचनं कदळीवनम्।
अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम्॥55||

श्यामां कमलपत्राक्षी मुपवासकृशाननाम्।
तदेकवासस्संवीतां रजोध्वस्त शिरोरुहाम्॥56||

शोकसन्ताप दीनांगीं सीतां भर्तृहिते स्थिताम्।
राक्षसीभिर्विरूपाभिः क्रूराभि रभिसंवृताम्॥57||

मांसशोणित भक्षाभिः व्याघ्रीभिर्हरिणीमिव।
सामया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः॥58||

एकवेनीधरा दीना भर्तृचिन्तापरायणा।
भूमिशय्या विवर्णांगी पद्मिनीव हिमागमे॥59||

रावणात् विनिवृतार्था मर्तव्यकृतनिश्चया।
कथंचिन् मृगशाबाक्षी तूर्णमासादिता मया॥60||

तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्।
तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः॥61||

ततो हलहलाशब्दं कांचिनूपुरमिश्रितम्।
श्रुणोम्यधिक गम्भीरं रावणस्य निवेशने॥62||

ततोsहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन्।
अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः॥63||

ततो रावण दाराश्च रावणश्च महाबलः।
तं देशं समनुप्राप्ता यत्र सीताsभवत् स्थिता॥64||

तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्।
संकुच्योरूस्तनौ पीनौ बाहूभ्यां परिरभ्य च॥65||

वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः।
त्राणां किंचिदपश्यन्तीं वेपमानां तपस्विनीम्॥66||

तामुवाच दशग्रीवः सीतपरमदुःखिता।
अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति॥67||

यदिचेत्त्वं तु दर्पानामां नाभिनन्दसि गर्विते।
द्वौमासानन्तरं सीते पास्यामि रुधिरं तव॥68||

एतत्च्रुत्वा वचस्तस्य रावणस्य दुरात्मनः।
उवाच परमकृद्धा सीता वचनमुत्तमम्॥69||

राक्षसाधम रामस्य भार्याममित तेजसः।
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च॥70||

अवाच्यं वदतो जिह्वा कथं न पतिता तव।
किंचिद्वीर्यं तवानार्यं यो मां भर्तुरसन्निधौ॥71||

अपहृत्याssगतः पाप तेनाsदृष्टो महात्मना।
न त्वं रामस्य सदृशो दास्येsप्यस्य न युज्यसे॥72||

यज्ञीय स्सत्यवादी च रणश्लाघी च राघवः।
जानक्या परुषं वाक्यमेव मुक्तो दशाननः॥73||

जज्वाल सहसा कोपा च्चितास्थ इवपावकः।
विवृत्य नयने क्रूरे मुष्टिमुद्यम दक्षिणम्॥74||

मैथिलीं हन्तुमारब्दः स्त्रीभिर्हाहाकृतं तदा।
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः॥75||

वरा मन्दोदरी नाम तया च प्रतिषेद्तः।
उक्तश्च मधुरां वाणीं तया स मदनार्दितः॥76||

सीताया तव किं कार्यं महेन्द्रसमविक्रमः।
देवगन्धर्वकन्याभि र्यक्षकन्याभि रेव च॥77||

सार्थं प्रभो रमस्वेह सीतया किं करिष्यसि।
ततस्ताभिः समेताभिर्नारीभिः स महाबलः॥78||

प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः।
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननः॥79||

सीतां निर्भर्त्सयामासु र्वाक्यैः क्रूरैः सुदारुणैः।
तृणवद्भाषितं तासां गणयामास जानकी॥80||

गर्जितं चतदा तासां सीतां प्राप्य निरर्थकम्।
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः॥81||

रावणाय शशंसुः ता सीताsध्यवसितं महत्।
ततस्ताः सहिता सर्वा निहिताशा निरुद्यमाः॥82||

परिक्षिप्य समन्तात् तां निद्रावशमुपागताः।
तासुचैव प्रसुप्तासु सीता भर्तृहिते रता॥83||

विलप्य करुणं दीना प्रशुशोच सुदुःखिता।
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्॥84||

आत्मानं खादत क्षिप्रं न सीता विनशिष्यति।
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च॥85||

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः।
रक्षसां च विनाशाय भर्तुरस्या जयाय च॥86||

अलमस्मत् परित्रातुं राघवाद्राक्षसीगणं।
अभिचायाम वैदेही मे तद्दि ममरोचते॥87||

यस्या ह्येनं विधः स्वप्नो दुःखितायाः प्रदृश्यते।
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नॊत्यनुत्तमम्॥88||

प्रणिपाता प्रसन्ना हि मैथिली जनकात्मजा।
ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता॥89||

अवोचद्यदितत् तथ्यं भवेयं शरणं हि वः।
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्॥90||

चन्तयामास विक्रान्तो न च मे निर्वृतं मनः।
संभाषणार्थं च मया जानक्याश्चिन्तितो विधिः॥91||

इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः।
श्रुत्वा तु गदितां वाचं राजर्षि गणपूजिताम्॥92||

प्रत्यभाषत मां देवीभाष्पैः पिहितलोचना।
कस्त्वं केन कथं चेह प्राप्तो वानरपुंगव॥93||

काच रामेण ते प्रीतिः तन्मे शंसितुमर्हसि।
तस्यास्तद्वचनं श्रुत्वा ह्यह मप्यब्रुवं वचः॥94||

देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः।
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः॥95||

तस्यमां विद्धि भृत्यं त्वं हनुमन्त मिहाssगतम्।
भर्त्राहं प्रेषितः तुभ्यं रामेणाsक्लिष्टकर्मणः॥96||

इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्।
अंगुळीय मभिज्ञान मदात् तुभ्यं यसस्विनि॥97||

तदिच्छामि त्वयाssज्ञप्तं देवि किंकरवाण्यहम्।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्॥98||

एतत् श्रुत्वा विदित्वा च सीता जनकनन्दिनी।
अह रावण मुत्साद्य राघवो मां नयत्विति ॥99||

प्रणम्य शिरसा देवी महमार्या मनिन्दिताम्।
राघवस्य मनोह्लाद अभिज्ञानं मयाचिषम्॥100||

अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः।
मणि र्येन महाबाहू रमस्त्वां बहुमन्यते॥101||

इत्युक्त्वातु वरारोहा मणिप्रवरमद्भुतम्।
प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह॥102||

ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः।
प्रदक्षिणं परिक्राम मिहाभ्युद्गतमानसः॥103||

उक्तोsहं पुनरेवेदं निश्चित्य मनसा तया।
हनुमान्मम वृत्तानं वक्तु मर्हसि राघवे॥104||

यथाश्रुत्वैव न चिरात्ता वुभौ रामलक्ष्मणौ।
सुग्रीवसहितौ वीरा वुपेयातां तथा कुरु॥105||

यदन्यथा भवेत् तत् द्वौमासौ जीवितं मम।
न मां द्रक्ष्यति काकुत्‍स्थोम्रिये साsह मनाथवत्॥106||

तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत।
उत्तरं च मया दृष्टं कार्यशेषमनंतरम्॥107||

ततोsवर्धत मे कायस्तदा पर्वतसन्निभः।
युद्धकांक्षी वनं तच्च विनाशयितुमारभे॥108||

तद्भग्नं वनषण्डं तु भ्रान्त त्रस्त मृगद्विजम्।
प्रतिबुद्धा निरीक्षन्ते राक्षस्या विकृताननः॥109||

मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः।
ता स्समभ्याssगताः क्षिप्रं रावणायच चक्षिरे॥110||

राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल॥111||

दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः।
वधमाज्ञापय क्षिप्रं यथासौ विलयं प्रजेत्॥112||

तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः।
राक्षसाः किंकरा नाम रावणस्य मनोनुगाः॥113||

तेषामशीति साहस्रं शूलमुद्गरपाणीनाम्।
मया तस्मिन् वनोद्देशे परिघेण निषूदितम्॥114||

तेशां तु हतशेषा ये ते गत्वा लघुविक्रमाः।
निहतं च महत् सैन्यं रावणायाचचक्षिरे॥115||

ततोमे बुद्धिरुत्पन्ना चैत्य प्रासादमाक्रमम्।
तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वैपुनः॥116||

ललाम भूतो लंकायाः स वैविध्वंसितो मया।
ततः प्रहस्तस्य सुतं जंबुमालिनमादिशत्॥117||

राक्षसैर्बहुभिः सार्थं घोररूप भयानकैः।
तं महाबलसंपन्नं राक्षसं रणकोविदम्॥118||

परिघेणाति घोरेण सूदयामि सहानुगं।
तच्छ्रुत्वा राक्षसेंद्रस्तु मंत्रिपुत्त्रान् महाबलान्॥119||

पदातिबलसंपन्नान् प्रेषयामस रावणः।
परिघेणैव तान् सर्वान् नयामि यमसादनम्॥120||

मंत्रिपुत्त्रान् हतान् श्रुत्वा समरे लघुविक्रमान्।
पंच सेनाग्रगान् शूरान् प्रेषयामास रावणः॥121||

तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्।
ततः पुनर्दशग्रीवः पुत्त्रमक्षं महाबलम्॥122||

बहुभिराक्षसैस्सार्थं प्रेषयामास रावणः।
तं तु मन्डोदरीपुत्त्रं कुमारं रणपण्डितम्॥123||

सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्॥१२४॥

तं अक्षमागतम् भग्नं निशम्य स दशासनः।
तत इन्द्रजितं नाम द्वितीयं रावणस्सुतम्॥12%||

व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्।
तच्चाप्यहं बलं सर्वं तं च राक्षसपुंगवम्॥126||

नष्टौजसं रणे कृत्वा परं हर्षमुपागमम्।
महतापि महाबाहुः प्रत्ययेन महाबलः॥127||

प्रेषितो रावणे नैव सहवीरैर्मदोत्कटैः।
सोsविषह्यं हि मां बुद्ध्वा स्वं बलं चावमर्दितम्॥128||

ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः।
रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः॥129||

रावणस्य समीपं च गृहीत्वा मामुपानयन्।
दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना॥130||

पृष्टश्च लंकागमनं राक्षसानां च तं वधम्।
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम्॥131||

अस्याहं दर्शनाकांक्षी प्राप्तः तद्भवनं विभो।
मारुतस्यौरसः पुत्त्रो वानरो हनुमानहम्॥132||

रामदूतं च मां विद्धि सुग्रिव सचिवं कपिम्।
सोsहं दूत्येन रामस्य त्वत्सकाश मिहागतः॥133||

सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत्।
धर्मार्थकामसहितं हितं पथ्य मुवाच च॥134||

वसतो ऋष्यमूके मे पर्वत विपुलद्रुमे।
राघवो रणविक्रान्तो मित्रत्वं समुपागतः॥135||

तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता।
तत्र साहाय्य मस्माकं कार्यं सर्वात्मना त्वया॥136||

मया च कथितं तस्मै वालिनश्च वधं प्रति।
तत्र सहाय्य हेतोर्मे समयं कर्तुमर्हसि॥137||

वालिना हृतराज्येन सुग्रीवेण महाप्रभुः।
चक्रेsग्नि साक्षिकं सख्यं राघवः सहलक्ष्मणः॥138||

तेन वालिनमुत्पाट्य शरेणैकेन संयुगे।
वानराणां महारजः कृतस्सप्लवतां प्रभुः॥139||

तस्यसाहय्यमस्माभिः कार्यं सर्वात्मना त्विह।
तेन प्रस्थापितः तुभ्यं समीप मिह धर्मतः॥140||

क्षिप्रमानीयतां सीता दीयतां राघवाय च।
यावन्नहरयो वीरा विधमन्ति बलं तव॥141||

वानराणां प्रभावो हि न केन विदितः पुरा।
देवतानां सकाशं च ये गच्चन्ति निमन्त्रिताः॥142||

इतिवानरराजस्त्वां आहेत्यभिहितो मया।
मामैक्षत ततः क्रुद्धः चक्षुसा प्रदहन्निव॥143||

तेन वध्योsहमाज्ञप्तो रक्षसा रौद्रकर्मणा।
मत्प्रभावं अविज्ञाय रावणेन दुरात्मना॥144||

ततो विभीषणो नाम तस्य भ्राता महामतिः।
तेन राक्षराजोsसौ याचितो ममकारणात्॥145||

नैवं राक्षसशार्दूल त्यजता मेष निश्चयः।
राजशास्त्रव्यपेतो हि मार्गः सम्सेव्यते त्वया॥146||

दूतवध्या न दृष्ता हि राजशास्त्रेषु राक्षस।
दूतेन वेदितव्यं च यदार्थं हितवादिना॥147||

सुमहत्यपराधेsपि दूतस्यातुलविक्रम।
विरूपकरणं दृष्टं न वधोsस्तीति शास्त्रतः॥148||

विभीषणेनैव मुक्तो रावणः संदिदेश तान् ।
राक्षसानेत देवास्य लांगूलं दह्यतामिति॥149||

ततस्तस्य वचश्श्रुत्वा मम पुच्चं समन्ततः।
वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः॥150||

राक्षसाः सिद्धसन्नाहाःततस्ते चण्डविक्रमाः।
तदा दह्यन्त मे पुच्चं निघ्नन्तः काष्ठमुष्टिभिः॥151||

बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः।
ततस्ते राक्षसा श्शूरा बद्धं मामग्निसंवृतम्॥152||

अघोषयन् राजमार्गे नगरद्वारमागताः।
ततोsहं सुमहद्रूपं संक्षॊप्य पुनरात्मनः॥153||

विमोचयित्वा तं बद्धं प्रकृतिस्थः स्थितः पुनः।
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्॥154||

ततस्तन्नगरद्वारं वेगे नाप्लुतवानहम्।
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्॥155||

दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः।
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते॥156||

लंकायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी।
दहता च मया लंकां दग्धा सीता न संशयम्॥157||

रामस्यहि महत्कार्यं मयेदं वितथीकृतम्।
इति शोकसमाविष्टः चिन्तामहमुपागतः॥158||

अथाहं वाच मश्रौषं चारणानां शुभाक्षराम्।
जानकी नच दग्धेति विस्मयोदन्त भाषिणाम्॥159||

ततो मे बुद्धिरुत्पन्न श्रुत्वा तामद्भुतां गिरम्।
अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता॥160||

दीप्यमाने तु लांगूले नमां दहति पावकः।
हृदयं च प्रहृष्टं मे वाताः सुरभिगन्दिनः॥161||

तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः।
ऋषिवाक्यैश्च सिद्दार्थैरभवं हृष्टमानसः॥162||

पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्चतया पुनः।
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः॥163||

प्रतिप्लवनमारेभे युष्मद्दर्शन कांक्षया।
ततः पवनचन्द्रार्क सिद्धगंधर्व सेवितम्॥164||

पन्थान मह माक्रन्य भवतो दृष्टवानिह।
राघवस्य प्रभावेन भवतां चैव तेजसा॥165||

सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्।
एतत्सर्वं मया तत्र यथावदुपपादितम्॥166||

अत्र यन्न कृतं शेषं तत् सर्वं क्रियतामिति ॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे अष्टपंचाशस्सर्गः ॥


|| Om tat sat ||