||Sundarakanda ||

|| Sarga 59||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ एकोनषष्टितमस्सर्गः॥

हनुमान् मारुतात्मजः एतत् सर्वं आख्याय भूयः उत्तरं वचनं वक्तुं समुपचक्रमे॥

मारुतात्मजः उवाच । राघवोद्योगः सुग्रीवस्य संभ्रमः सीतायाः शीलं आसाद्य सफलः मम मनश्च प्रवणं॥ सर्वथा अतिप्रवृद्धः असौ राक्षसाधिपः तपसा लोकान् निर्दहेत् ।कृद्धोवापि निर्दहेत् अपि॥ताम् स्पृशतः तस्य गात्रं तपसा न विनाशितं । क्रोधकलुषीकृता जनकस्य आत्मजा यत् कुर्यात् तत् पाणिना संस्पृष्ट सती अग्निशिखा नकुर्यात् ||

भवताम् निवेदिते अस्मिन् कार्ये एवं गते जांबवत् प्रमुखान् महाहरीन् समनुज्ञाय वैदेह्या सह तौ पार्थिवात्मजौ द्रष्टुं न्यायं स्म॥ अह एकः अपि सराक्षसगणां तां लंकापुरीं महाबलं रावणं च तरसा हन्तुं पर्याप्तः॥बलवद्भिः कृतात्मभिः शूरैः विजयैषिभिः प्लवगैः भवद्भिः सहितः किं पुनः ॥ अहं तु युद्धे ससैन्यं सपुरस्सरं सहपुत्त्रं सहोदरयुतं रावणं वधिष्यामि ॥ ब्रह्मं इन्द्रं च रौद्रं च वायव्यं तथावारुणं शक्रजितः अस्त्राणि दुर्निरीक्षाणि यदि तानि संयुगे वधिष्यामि राक्षसान् हनिष्यामि च॥ भवताम् अभ्यनुज्ञातः मे विक्रमः तं रुणाद्धि मया विसृष्टा अतुला निरन्तरा शैलवृष्टिः रणे देवान् अपि हन्यात् । तान् निशाचरान् किं पुअनः॥

सागरं वेलां अतियादपि मन्दरः प्रचलेदपि समरे अरिवाहिनि जाम्बवतं न कम्पयेत् ॥

वीरः वालिसुतः कपिः एकः सर्वराक्षसंघानां पूर्वकाः ये विनासाय अलम्॥पनसस्य महात्मनः नीलस्य ऊरुवेगेन मन्दरो अपि अवशीर्यते । युधि राक्षसाः किम् पुनः॥ सदेवासुर यक्षेषु गन्धर्वोरगपक्षिषु मैन्दस्य द्विविदस्य प्रतियोद्धारं शंसत॥

अश्विपुत्रौ एतौ महाभागौ प्लवगसत्तमौ रणाजिरे एतयोः प्रतियोद्धारं न पश्यामि ॥ पितामहवरोत्सेकात् परमं दर्पं आस्थितौ एतौ वानरसत्तमौ अमृतपाशिनौ ॥ पुरा सर्वलोकपितामहः अश्विनोः मानार्थं अनयोः अतुलं सर्व अवध्वत्वं दत्तवान् ॥वरोत्सेकेन मत्तौ च वीरौ प्लवंगमौ सुराणां महतीं चमूं प्रमथ्य अमृतं पीतवन्तौ ॥ संकृद्धौ एतावेव सवाजिरथकुंजरां लंकां नासयितुं शक्तौ । सर्वे वानराः तिष्टन्तु॥

लंका मयैव निहता पुनः भस्मीकृता राजमार्गेषु सर्वत्र मया नाम विस्रावितम् ॥ अतिबलः रामः जयति। महाबलः लक्ष्मणः च। राघवेण अभिपालितः राजा सुग्रीवः जयति । पवनसम्भवः अहं कोसलराजस्य दासः। हनुमान् इति मया नाम विश्रावितम्॥

दुरात्मनः रावणस्य अशोकवनिकामध्ये शिंशुपावृक्षे अधस्तात् साध्वी राक्षसीभिः परिवृता शॊकसंताप कर्शिता मेघलेखापरिवृता चण्द्रलेखं इव निष्प्रभा बलदर्पितं रावणं अचिन्तयन्ती वैदेही करुणं आस्थिता॥ पतिव्रता सुश्रोणी जानकी अवष्टब्धा शुभा वैदेही सर्वात्मना रामं अनुरक्ता पुरन्दरे पौलोमि इव रामे अनन्यचित्ता (अस्ति)॥ तदेकवाससंवीता रजॊध्वस्था शोकसंतापदीनांगी सीता भर्तृहिते रता ॥ विरूपाभिः राक्षसीभिः मुहुर्मुहुः तर्ज्यमाना ,दीना भर्तृचिन्तापरायणा अथः शय्या , हिमागमे पद्मिनीमिव विवर्णांगी, रावणात् विनिवृत्तार्था, मर्तव्यकृतनिश्चया सा मया राक्षसीमध्ये प्रमदावने दृष्टा॥ मृगशाबाक्षी कथंचित् उपपादिता ततः संभाषिता सर्वं अर्थं च दर्शिता रामसुग्रीवसख्यं च श्रुत्वा प्रीतिं उपागता॥ महात्मा सा कृतागसम् दशग्रीवं न हन्ति इति यत् (तत्) नियतः समुदाचारः भर्तरि उत्तमा भक्तिः ॥ रामस्तु तस्य वधे निमित्तमात्रं भविष्यति प्रकृत्यैव तन्वंगी तद्वियोगात् कर्शिता च सा प्रतिपत्पाठशीलस्य विद्येव तनुमतां गता।

महाभागा सीता अस्ते एवं शोकपरायणा अत्र यत् प्रतिकर्तव्यं तत् सर्वं उपपद्यताम्॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकोनषष्टितमस्सर्गः ॥

||om tat sat||