||Sundarakanda ||

|| Sarga 6||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ षष्टस्सर्गः

स निकामं विमानेषु विषण्णः कामरूपधृत्।
विचचार पुनर्लंकां लाघवेन समन्वितः॥1||

अससाध लक्श्मीवान् राक्षसेंद्र निवेशनम्।
प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम्॥2||

रक्षितं राक्षसैर्घोरैः सिंहैरिवमहद्वनम्।
समीक्षमाणो भवनं चकाशे कपिकुंजरः॥3||

रूप्यकोपहितैश्चित्रैः तोरणैर्हेमभूषितैः।
विचित्राभिश्च कक्षाभिः द्वारैश्चरुचिरैर्वृतम् ॥4||

गजास्थितैर्महामात्रैः शूरैश्चविगतश्रमैः।
उपस्थितं असंहार्यैः हरयै स्स्यंदनयायिभिः ॥5||

सिंहव्याघ्रतनुत्राणैः दांतकांचनराजतैः।
घोषवद्भिः विचित्रैश्च सदा विचरितं रथैः॥6||

बहुरत्न समाकीर्णं परार्ध्यासनभाजनम्।
महारथसमावासम् महारथमहास्वनम्॥7||

दश्यैश्च परमोदारैः तैः तैः च मृगपक्षिभिः।
विविधैर्बहुसाहस्रैः परिपूर्णं समंततः॥8||

विनीतैरंतपालैश्च रक्षोभिश्च सुरक्षितम्।
मुख्याभिश्च परस्त्रीभिः परिपूर्णं समंततः॥9||

मुदित प्रमदारत्नं राक्षसेंद्र निवेशनम्।
वराभरणसंहाद्रैः समुद्रस्स्वननिस्स्वनम्॥10||

तद्राजगुणसंपन्नं मुख्यैश्चागरुचंदनैः।
महाजनैः समाकीर्णं सिंहैरिव महद्वनम्॥11||

भेरीमृदंगाभिरुतं शंखघोषनिनादितम्।
नित्यार्चितं पर्वहुतं पूजितं राक्षसैस्सदा॥12||

समुद्रमिव गंभीरं समुद्रस्वननिस्स्वनम्।
महात्मनोमहद्वेश्म महारत्न परिछ्छदम्॥ 13||

महारत्न समाकीर्णं ददर्श स महाकपिः।
विराजमानं वपुषागजाश्वरथसंकुलम्॥14||

लंकाभरणमित्येव सोsमन्यत महाकपिः।
चचार हनुमांस्तत्र रावणस्य समीपतः॥15||

गृहाद्गृहं राक्षसानां उद्यानानि च वानरः।
वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः॥16||

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।
ततोsन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्॥17||

अथ मेघ प्रतीकाशं कुंभकर्णनिवेशनम्।
विभीषणस्य च तथापुप्लुवे महाकपिः॥18||

महोदरस्य च गृहं विरूपाक्षस्य चैव हि।
विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तधैवच ॥19||

वज्रदंष्ट्रस्य ह तथा पुप्लुवे महाकपिः।
शुकस्य च महातेजा स्पारणस्य च धीमतः॥20||

तथा चेंद्रजितोवेश्म जगाम हरियूधपः।
जंबुमाले स्सुमालेश्च जगाम हरिसत्तमः॥21||

रश्मि केतोश्च भवनं सूर्य शत्रोस्तथैवच ।
वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥22||

धूम्राक्षस्य च संपातेः भवनं मारुतात्मजः।
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च॥23||

शुकनासस्य वक्रस्य शठस्य विकटस्य च।
ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥24||

युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः।
विद्युज्जिह्वेंद्रजिह्वानां तथा हस्तिमुखस्य च॥25||

कराळस्य पिशाचस्य शोणिताक्षस्य चैव हि।
क्रममाणं क्रमेणैव हनुमाम्मारुतात्मजः॥26||

तेषु तेषु महार्हेषु भवनेषु महायशाः।
तेषां वृद्धिमतां वृद्धिं ददर्श स महाकपिः॥27||

सर्वेषां समतिक्रम्य भवनानि समंततः ।
अससादाथ लक्ष्मीवान् राक्षसेंद्रनिवेशनम्॥ 28||

रावणसोपशायिन्यो ददर्श हरिसत्तमः।
विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणः॥29||

शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः।
ददर्श विविधान् गुल्मान् तस्य रक्षःपतेर्गृहे॥30||

राक्षासांश्च महाकायान् नाना प्रहरणोद्यतान्।
रक्तान् श्वेतान् स्थितांश्छैव हरींश्चापि महाजवान्॥31||

कुलीनान् रूपसंपन्नान् गजान्परगजारुजान्।
निष्टितान् गजशिक्षयां इरावतसमान्युधि॥32||

निहंतॄन्परशैन्यानां गृहे तस्मिन् ददर्श सः।
क्षरतश्च यथामेघान् स्रवत्श्च यथा गिरीन्॥33||

मेघस्तनित निर्घोषान् दुर्धर्षान् समरे परैः।
सहस्रं वाहिनीस्तत्र जांबूनदपरिष्कृताः॥34||

हेमजालपरिच्चन्नाः तरुणादित्यसन्निभाः।
ददर्श राक्षसेंद्रस्य रावणस्य निवेशने॥35||

शिबिका विविधाकाराः सकपिर्मारुतात्मजः।
लतागृहाणि चित्राणी चित्रशालागृहाणिच॥36||

क्रीडागृहाणि चान्यानि दारुपर्वतकानपि।
कामस्य गृहकं रम्यं दिवागृहकमेवच ॥37||

ददर्श राक्षसेंद्रस्य रावणस्य निवेशने।
समंदरग्रिप्रख्यं मयूरस्थानसंकुलम्॥38||

ध्वजयष्टिभि राकीर्णं ददर्श₹ भवनोत्तमम्।
अनेकरत्नसंकीर्णं निधिजालं समंततः॥39||

धीरनिष्टितकर्मांतं गृहं भूतपतेरिव।
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च॥40||

विरराजाथ तद्वेश्म रस्मिमानिव रश्मिभिः।
जांबूनदमयान्येन शयनान् आसनानिच॥41||

भाजनानि च मुख्यानि ददर्श हरियूथपः।
मध्वासकृतक्लेदं मणीभाजनसंकुलम्॥42||

मनोरम मसंबाधं कुबेरभवनं यथा।
नूपुराणां च घोषेण कांचीनां निनदेन च॥43||

मृदंगतलघोषैश्च घोषवद्भिर्विनादितम्।
प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम्॥
सुपूढ्यकक्ष्यं हनुमान् प्रविवेश महागृहम्॥44||


इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे षष्तस्सर्गः॥


 

 


 

 

 

 





 



 

|| Om tat sat ||