||Sundarakanda ||

|| Sarga 62||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ द्विषष्टितमस्सर्गः॥

तानुवाच हरिश्रेष्ठो हनुमान् वानरर्षभः।
अव्यग्रमनसो यूयं मधुसेवत वानराः॥1||
अहमावारयिष्यामि युष्माकं परिपंथिनः।

स॥ हरिश्रेष्ठः वानरर्षभः हनुमान् तान् उवाच।वानराः यूयं अव्यग्रमनसः मधुसेवत॥युष्माकं परिपन्थिनः अहं आवारयिष्यामि ॥

Hanuman, the best among Vanaras spoke to them. 'Oh Vanaras! Without any fear take the honey. I will prevent anybody who objects to your actions'.

श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोंगदः॥2||
प्रत्युवाच प्रसन्नात्मा पिबंतु हरयो मधु।
अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया॥3||
अकार्यमपि कर्तव्यं किमंग पुनरीदृशम्

स॥ हनुमतः वाक्यं श्रुत्वा अंगदः प्रवरः हरीणां प्रत्युवाच। हरयः मधु प्रसन्नात्मापिबंतु॥कृतकार्यस्य हनुमतः वाक्यं अकार्यं अपि अवश्यं कर्तव्यं । ईदृशं पुनः किमंग॥

Hearing the words of Hanuman, the distinguished Angada replied. "Oh Vanaras ! You may drink happily. With accomplished Hanuman's words even a forbidden work shall surely be done. What to say of this kind of work ( drinking honey)'.

अंगदस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः॥4||
साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्।
पूजयित्वांगदं सर्वे वानरा वानरर्षभम्॥5||
जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम्।

स॥ वानरर्षभाः वानराः अंगदस्य मुखात् वचनं श्रुत्वा संहृष्टाः साधु साध्विति प्रत्यपूजयन्॥ सर्वे वानराः अंगदं पूजयित्वा यत्र मधुवनं (तत्र) जग्मुः नदी वेगः द्रुमम् इव ॥

The bulls among Vanaras, hearing those words from Angada, very much delighted praised him saying 'very good very good'. All the Vanaras praising Angada quickly moved into Madhuvanam, like the trees in fast flowing river.

ते प्रविष्टा मधुवनं पालानाक्रम्य वीर्यतः॥6||
अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीं।
पपुस्सर्वे मधु तदा रसवत्फल माददुः॥7||
उत्पत्य च ततः सर्वे वनपालान् समागतान्।
ताडयंतिस्म शतशस्सक्तान् मधुवने तदा॥8||

स॥ मैथिलीं दृष्ट्वा श्रुत्वा अतिसर्गाच्च मधुवनं प्रविष्टाः। पालान् वीर्यतः आक्रम्य तदा मधुः पपुः । रसवत् फलं आददुः॥तदा सर्वे सक्तान् समागतान् मधुवने उत्पत्य ततः वनपालान् शतशः ताडयंतिस्म॥

Having seen Maithili and overjoyed with success they entered the Madhuvanam. Having violently attacked the guards they then drank honey and ate tasty fruits. Then all the Vanaras came together rising up hit the forest guards in many ways.

मधूणि द्रोणमात्राणि बाहुभिः परिगृह्य ते।
पिबंति सहिताः सर्वे निघ्नंति स्म तथा परे॥9||
केचित्पीत्वाsपविध्यंति मधूनि मधुपिंगळाः।
मधूच्छिष्टेन केचिच्च जघ्नुरन्योन्यमुत्कटाः॥10||
अपरे वृक्षमूले तु शाखां गृह्य व्यवस्थिताः।
अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते॥11||

स॥ ते सर्वे बहुभिः द्रोणमात्राणि मधूनि परिगृह्य सहिताः पिबन्ति। अपरे निघ्नन्ति च॥मधुपिंगळाः केचित् मधूनि पीत्वा मधूच्छिष्टेन उत्कटाः अन्योन्यं प्रविध्यन्ति जग्मुः॥ अपरे शाखां गृह्य वृक्षमूले व्यस्थिताः। अत्यर्थं मदग्लानाः पर्णानि आस्तीर्य शेरते॥

All of them took hold of large containers of honey and drank. Other were preventing (the guards). Some of the Vanaras drinking honey intoxicated by chunks of honey combs went about throwing each other. Others took branches of the tree rested at the root of the trees. Due to excessive sweet drinks, some of them laid down spreading the leaves.

उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्।
क्षिपंति च तदान्योन्यं स्खलंति च तथाsपरे॥12||
केचित् क्ष्वेळां प्रकुर्वंति केचित्कूजंति हृष्टवत्।
हरयो मधुना मत्तः केचित् सुप्ता महीतले॥13||
कृत्वा केचित् दसंत्यन्ये केचित् कुर्वंति चेतरत्
कृत्वा केचित् वदंत्यन्ये केचित् बुध्यंति चेतरत्॥14||

स॥ मधुमत्ताः प्लवगाः उन्मत्तभूताः हृष्टवत् अन्योन्यं क्षिपन्ति ।अपरे स्खलंति च॥केचित् क्ष्वेळां प्रकुर्वन्ति । केचित् हृष्टवत् कूजन्ति।मधुना मत्ताः केचित् हरयः महीतले सुप्ताः॥केचित् कृत्वा हसन्ति। अन्ये केचित् इतरम् कुर्वन्ति। केचित् कृत्वा वदन्ति। केचित् अन्ये इतरत् बुध्यन्ति॥

Intoxicated Vanaras, like mad people, were joyfully pushing each other. Some others were unsteady. Some others roared. Some happily cooed like birds. Intoxicated by the drink some Vanaras slept on the ground. Some laughed after drinking, Some others did some thing else. Some were speaking after drinking. Some were thinking after drinking.

येsप्यत्र मधुपालास्स्युः प्रेष्या दधिमुखस्य तु।
तेsपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः॥15||
जानुभिस्तु प्रकृष्टाश्च देवमार्गं प्रदर्शिताः।
अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः॥16||

स॥ अत्र दधिमुखस्य प्रेष्याः मधुपालाः ये स्युः ते अपि भीमैः वानरैः प्रतिषिद्धाः दिशः गताः ॥जानुभिः प्रकृष्टाः देवमार्गं प्रदर्शिताः । परमोद्विग्नाः दधिमुखं गत्वा वचः अब्रुवन् ॥

There the guards of the Madhuvanam sent by Dadhimukha as a cover were driven away in all directions. Some were dragged with their knees and thrown into the sky. Greatly disturbed the guards went and spoke to Dadhimukha.

हनुमता दत्तवरैर्हतं मधुवनं बलात्।
वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः॥17||
ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः।
हतं मधुवनं श्रुत्वा सांत्वयामास तान् हरीन्॥18||

स॥ हनुमता दत्तवरैर्हतं वयं च मधुवनं जानुभिः बलात् कृष्टा देवमार्गं च दर्शिताः ॥तत्ः तत्र दधिमुखः वानरः कृद्धः मधुवनं हतं (इति) श्रुत्वा हरीण् सान्त्वयामास॥

' Permitted by Hanuman to enter Madhuvanam, we were forcefully shown the sky way by holding our knees' . Then the Dadhimukha was angry with Vanaras. Having heard that Madhuvanam was destroyed he said soothing words ( to the guards).

इहागच्छत गच्छामो वानरान् बलदर्पितान्।
बलेन वारयिष्यामो मधु भक्षयतो वयम्॥ 19||
श्रुत्वा दधिमुख स्येदं वचनं वानरर्षभाः।
पुनर्वीरा मधुवनं तेनैव सहसा युयुः॥20||
मध्ये चैषां दधिमुखः प्रगृह्य तरसा तरुम्।
समभ्यधावत् वेगेन ते च सर्वे प्लवंगमाः॥21||

स॥इह आगच्छत। गच्चामः वयं बलदर्पितान् मधुभक्षयतः वानरान् बलेन वारयिष्यामः॥वानरर्षभाः दधिमुखस्य इदं वचनं श्रुत्वा सहसा तेनैव पुनः मधुवनं ययुः॥एषां मध्ये तरसा दधिमुखः तरुं प्रगृह्य वेगेन समभ्यधावत् ते सर्वे प्लवंगमाः च॥

' Come here. We will go and forcibly prevent those Vanaras proud of their power, and drinking honey' . The bulls among Vanaras hearing those words of Dadhimukha again immediately went to Madhuvanam. On their way the energetic Dadhimukha took one tree and all the Vanaras too followed.

ते शिलाः पादपांश्चापि पर्वतांश्चापि वानराः।
गृहीत्वाभ्यगमन् क्रुद्धा यत्र ते कपिकुंजराः॥22||
ते स्वामिवचनं वीराहृदये ष्यवसज्य तत्।
त्वरया ह्यभ्यधावंत सालताल शिलायुधाः॥23||
वृक्षस्थांच तलस्थांच वानरान् बलदर्पितान्।
अभ्यक्रामं स्ततो वीराः पालास्तत्र सहस्रशः॥24||

स॥ ते वानराः क्रुद्धाः शिलाः पादपांश्च पर्वतांश्च गृहीत्वा ते कपिकुंजराः यत्र तत्र अभ्यगमन्॥वीराः ते तत् स्वामिवचनं हृदयेषु अवस्ज्य सालतालशिलायुधाः त्वरया अभ्यधावन्त॥ततः वीराः पालाः सहस्रशः वृक्षास्थांश्च तलास्थांश्चबलदर्पितान् वानरान् अभ्यक्रमन्॥

The angry Vanara guards took rocks, trees and even big boulders and the elephant among Vanaras Dadhimukha went to the Madhuvanam. The heroic guards keeping their leaders words in the heart went with Sala Tala trees as weapons rushed at once. Then the heroic guards in their thousands attacked the proud Vanaras who were on the trees and under the trees.

अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः।
अभ्यधावंत वेगेन हनुमत्प्रमुखाः तदा॥25||
तं सवृक्षं महाबाहुं अपतंतं महाबलम्।
आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोंगदः॥26||
मदांधश्चन वेदैन मार्यकोsयं ममेति सः।
अथैनं निष्पिपेषाशु वेगेवत् वसुधातले॥27||

स॥ अथ हनुमत्प्रमुखाः वानरपुंगवाः तदा दधिमुखं क्रुद्धं दृष्ट्वा वेगेन अभ्यधावंत॥कुपितः अंगदः सवृक्षं महाबाहुं महाबलं आपतंतं तं आर्यकम् तत्र बाहुभ्यां प्राहरत्॥सः मदांधस्य अयम् मम आर्यकः इति एनं न वेद । अथ एनं वसुधातले वेगवत् आशु निष्पिपेष॥

Then the Hanuman and other leaders among Vanaras seeing the angry Dadhimukha came quickly. Then angry Angada seeing the powerful strong armed elderly one coming with a tree held him tightly with his hands. Blinded with power he did not realize that he is his elder. Then he pushed him onto the ground speedily.

स भग्न बाहूरुभुजो विह्वलः शोणितोक्षितः।
मुमोह सहसा वीरो मुहूर्तं कपिकुंजरः॥28||
स समाश्वास सहसा संक्रुद्धो राजमातुलः।
वानरान् वारयामास दंडेन मधुमोहितान्॥29||
स कथंचित् विमुक्तः तैः वानरैर्वानरर्षभः।
उवाचैकांत माश्रित्य भृत्यान् स्वान् समुपागतान् ॥30||

स॥ भग्नबाहूरुभुजः शोणितोक्षितः विह्वलः सः वीरः कपिकुंजरः सहसा मुहूर्तं मुमोह॥राजमातुलः सः सहसा समाश्वस्य संक्रुद्धः मधुमोहितान् वानरान् दण्डेन वारयामास॥तैः वानरैः कथंचित् विमुक्तः सः वानरर्षभः एकान्तं आश्रित्य समुपागतान् स्वान् भृत्यान् उवाच॥

With shoulders and arms hurt, battered, soaked with blood , that heroic elephant among Vanaras , Dadhimukha ,lost consciousness for a moment. The furious maternal uncle of the king quickly recovering , chased the intoxicated Vanaras with a stick. Somehow escaping from the Vanaras , Dadhimukha ,the bull among Vanaras moved to a secluded place spoke to his followers who followed him.

एते तिष्ठंतु गच्छामो भर्तानो यत्र वानरः।
सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति॥31||
सर्वं चैवांगदे दोषं श्रावयिष्यामि पार्थिवे।
अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्॥32||
इष्टं मधुवनं ह्येतत् सुग्रीवस्य महात्मनः।
पितृपैतामहं दिव्यं देवैरपि दुरासदम्॥33||

स॥एते तिष्ठन्तु नः भर्ता वानरः विपुलग्रीवः सुग्रीवः यत्र रामेण सह तिष्ठति (तत्र) गच्छामः॥ अंगदे सर्वं दोषं पार्थिवे श्रावयिष्यामि।वचनं श्रुत्वा अमर्षिवानरान् घातयिष्यति॥पितृपैतामहं दिव्यं देवैरपि दुरासदम् एतत् मधुवनं महात्मनः पार्थिवस्य हि॥

' Let them stay. We will go where our broad necked king Sugriva is sitting with Rama. We will let him know all the mistakes of Angada. Hearing those words, he being very furious ,will put an end. This wonderful Madhuvanam belongs to the revered king , coming from the forefathers it is inaccessible even for Devas'.

स वानरन् इमान् सर्वान् मधुलुभ्दान् गतायुषः।
घातयिष्यंति दंडेन सुग्रीवः ससुहृज्जनान्॥34||
वध्या ह्येते दुरात्मनो नृपज्ञा परिभाविनः।
अमर्ष प्रभवो रोषः सफलो नो भविष्यति॥35||

स॥ सः सुग्रीवः मधुलुब्धान् गतायुषः स सुहृत्‍ज्जनान् इमान् सर्वान् वानरान् घातयिष्यति ॥एते दुरात्मनः नृपज्ञापरिभाविनः वध्याः हि । अमर्षप्रभवः नः रोषः सफलः भविष्यति॥

' That Sugriva will punish all these Vanaras and their friends who are greedy for honey and are doomed. These evil minded ones who disobeyed king's orders are fit to be killed. That way our forbearance and fury will be fruitful '.

एवमुक्त्वा दधिमुको वनपालान् महाबलः।
जगाम सहसोत्पत्य वनपालैः समन्वितः॥36||
निमिषांतरमात्रेण सहि प्राप्तो वनालयः।
सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः॥37||

स॥ महाबलः दधिमुखः वनपालान् एवं उक्त्वा सहसा वनपालैः समन्वितः उत्पत्य जगाम॥सः वनालयः सहस्रांशु सुतः धीमान् सुग्रीवः वानरः यत्र (तत्र) निमिषान्तरमात्रेण प्राप्तः।

Having told thus to the forest guards , the mighty Dadhimukha rose up along with the forest guards and went. In a moment Dadhimukha reached the place where Sugriva the son of Sungod is present.

रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीव मेव च।
समप्रतिष्ठां जगतीं आकाशान् निपपात ह॥38||

स॥ रामं च लक्ष्मणं च एव सुग्रीवं एव च दृष्ट्वा आकाशात् समप्रतिष्ठां जगतीं निपपात॥

Seeing Rama , Lakshmana and Sugriva from the sky , he landed on an even ground.

सन्निपत्य महावीर्यः सर्वैः तैः परिवारितः।
हरिर्दधिमुखः पालैः पालानां परमेश्वरः॥39||
स दीनवदनो भूत्वा कृत्वा शिरसि चांजलिम्।
सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रयपीडयत्॥40||

स॥ सर्वैः तैः पालैः परिवारितः पालानाम् परमेश्वरः हरिः महावीर्यः दधिमुखः दीनवदनः शिरसि अंजलिम् कृत्वा सन्निपत्य सुग्रीवस्य शुभे चरणौ मूर्ध्ना प्रत्यपीडयत् ॥

Surrounded by all those guards, Dadhimukha bowed with his head to the king who is the leader of all Vanaras and is a great hero. Dadhimukha with a piteous face approached Sugriva and placed his forehead at his feet.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्विषष्टितमस्सर्गः ॥

Thus ends Sarga sixty two of Sundarakanda in Ramayana the first poem evert composed in Sanskrit by the first poet sage Valmiki.

||om tat sat||