||Sundarakanda ||

|| Sarga 63||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ त्रिषष्टितमस्सर्गः॥

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः।
दृष्ट्वैवो द्विग्नहृदयो वाक्तमेत दुवाच ह॥1||

उत्तिष्टोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम।
अभयं ते भवेत् वीर सर्व मेवाभिदीयताम्॥2||

स तु विश्वासितः तेन सुग्रीवेण महात्मना।
उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोsब्रवीत्॥3||

नैवर्‍क्ष रजसा राजन् न त्वया नापि वालिना।
वनं विसृष्टपूर्वं हि भक्षितं तच्च वानरैः॥4||

एभिः प्रदर्षिताश्चैव वानरा वनरक्षिभिः।
मधून्यचिन्तयत्वेमान् भक्षयंति पिबंति च ॥5||

शिष्टमत्रापविध्यंति भक्षयंति तथापरे।
निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयंति हि॥6||

इमे हि संरब्धतराः तथा तैः संप्रधर्षिताः।
वारयंतो वनात् तस्मात् क्रुद्धैर्वानरपुंगवैः॥7||

ततस्तैर्बहुभिर्वीरैः वानरैर्वानरर्षभः।
संरक्तनयनैः क्रोधाद्दरयः प्रविचालिताः॥8||

पाणिभिर्निहताः केचित् केचित् जानुभिराहताः ।
प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः॥9||

एव मेते हताः शूराः त्वयि तिष्ठति भर्तरि।
कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते॥10||

एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम्।
अपृच्छ तं महाप्राज्ञो लक्ष्मणः परवीरह॥11||

किमयं वानरो राजन् वनपः प्रत्युपस्थितः।
कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्॥12||

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना।
लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः॥13||

आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः।
अंगदप्रमुखैर्वीरैः भक्षितं मधु वानरैः॥14||

विचित्य दक्षिणामाशां आगतैर्हरिपुंगवैः।
नैषामकृतकृत्यानां ईदृशस्स्यादुपक्रमः॥15||

अगतैश्च प्रमथितं यथा मधुवनं हि तैः।
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः॥16||

वनं यदाsभिपन्नास्ते साधितं कर्मवानरैः।
दृष्टा देवी न संदेहो न चान्येन हनूमता॥17||

न ह्यन्यः साधने हेतुः कर्मणोsस्य हनूमतः।
कार्यसिद्धिर्मतिश्चैव तस्मिन्वानरपुंगवे॥18||

व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्टितम्।
जांबवान्यत्र नेतास्यादंगदश्च महाबलः॥19||

हनुमांश्चाप्यधिष्ठाता न तस्य गति रन्यथा।
अंगदप्रमुखैर्वीरैः हतं मधुवनं किल॥20||

वारयंतश्च सहिताः तथा जानुभिराहताः।
एतदर्थमयं प्राप्तो वक्तुं मधुरवा गिह॥21||

नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः।
दृष्टा सीता महाबाहो सौमित्रे पश्यतत्त्वतः॥22||

अभिगम्य तथा सर्वे पिबंति मधु वानराः।
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ॥23||

वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः।
ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सह राघवः॥24||

श्रुत्वा कर्णसुखां वाणीं सुग्रीव वदनाच्च्युताम्।
प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः॥25||

श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत॥26||

प्रीतोsस्मि सोsहं यद्भुक्तं वनं तैः कृतकर्मभिः।
मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम्॥27||

इच्छामि शीघ्रं हनुमत्प्रधानान्
शाखामृगां स्तान् मृगराज दर्पान्।
द्रष्टुं कृतार्थान् सह राघवाभ्यां
श्रोतुं च सीताधिगमे प्रयत्नम्॥28||

प्रीतिस्फीताक्षौ संप्रहृष्टौ कुमारौ
दृष्ट्वा सिद्दार्थौ वानराणां च राजा।
अंगैः संहृष्टैः कर्मसिद्धिं विदित्वा
बाह्वोरासन्नां सोsतिमात्रं ननंद॥29||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे त्रिषष्टितमस्सर्गः ॥

|| Om tat sat ||