||Sundarakanda ||

|| Sarga 40||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ त्रिषष्टितमस्सर्गः॥

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः।
दृष्ट्वैवो द्विग्नहृदयो वाक्तमेत दुवाच ह॥1||
उत्तिष्टोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम।
अभयं ते भवेत् वीर सर्व मेवाभिदीयताम्॥2||

स॥ततः वानरर्षभः मूर्ध्ना निपतितं वानरं दृष्ट्वा द्विग्न हृदयः एयय् वाक्यं उवाच ह॥वीर उत्तिष्ठ उत्तिष्ठ कस्मात् मम पादयोः त्वं पतितः । ते अभयं भवेत् । सर्वं एव अभिधीयताम्॥

Then the bull among Vanaras anxious seeing Dadhimukha fallen at his feet spoke these words.' Oh Hero ! Get up, get up. Why are you falling at my feet . I give you protection .You may tell everything'.

स तु विश्वासितः तेन सुग्रीवेण महात्मना।
उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोsब्रवीत्॥3||

स॥ सुमहाप्राज्ञः दधिमुखः तेन सुग्रीवेण विश्वाशितः उत्थाय सः वाक्यः अब्रवीत्॥

The very wise Dadhimukha thus assured by Sugriva , got up and spoke the following words.

नैवर्‍क्ष रजसा राजन् न त्वया नापि वालिना।
वनं विसृष्टपूर्वं हि भक्षितं तच्च वानरैः॥4||
एभिः प्रदर्षिताश्चैव वानरा वनरक्षिभिः।
मधून्यचिन्तयत्वेमान् भक्षयंति पिबंति च ॥5||
शिष्टमत्रापविध्यंति भक्षयंति तथापरे।
निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयंति हि॥6||

स॥ राजन् ऋक्षरजसा नैव विश्रुष्टपूर्वं हि त्वया न वालिना अपि न तच्च वनं वानरैः भक्षितम्॥एभिः वनरक्षिभिः प्रधर्षितश्चएव इमान् अचिन्तयित्वा मधूनि भक्ष्यन्ति पिबन्ति च॥ शिष्टं अत्र अपविध्यन्ति । तथा भक्षयन्ति। ते सर्वे निवार्यमानः भृवः दर्शयन्ति च॥

' Oh Rajan ! In the time of Ruksharajasa or even before or in Vali's time or yours that grove (Madhuvanam) which is not accessible, was eaten by Vanaras. Even though resisted by the guards of the grove, without caring for them, they ate and drank honey. Left overs were thrown off. Similarly others were eating, When they were prevented they raised their eyebrows '.

इमे हि संरब्धतराः तथा तैः संप्रधर्षिताः।
वारयंतो वनात् तस्मात् क्रुद्धैर्वानरपुंगवैः॥7||
ततस्तैर्बहुभिर्वीरैः वानरैर्वानरर्षभः।
संरक्तनयनैः क्रोधाद्दरयः प्रविचालिताः॥8||
पाणिभिर्निहताः केचित् केचित् जानुभिराहताः ।
प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः॥9||
एव मेते हताः शूराः त्वयि तिष्ठति भर्तरि।
कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते॥10||

स॥ तथा तस्मात् वनात् वारयन्तः संरब्धतराः क्रुद्धैः तैः वानरपुंगवैः इमे संप्रधर्षिताः ॥वानरर्षभ ततः क्रोधात् संरक्तनयनैः वीरैः बहुभिः तैः वानरैः हरयः प्रविचालितः॥केचित् पाणिभिः निहताः। केचित् जानुभिः आहताः। यथाकामं प्रकृष्टाः देवमार्गं दर्शिताः च॥त्वयि भर्तरि तिष्ठति एते शूराः एवं हताः । तैः कृत्स्नं मधुवनं चैव प्रकामं प्रभक्ष्यते॥

When prevented from that grove, the enraged and angry Vanaras ill treated them. Oh Bull among Vanaras! Then many of the heros who were angry and with red eyes, chased away the guards. Some were hit by hands. Some were hit on their knees. They dragged them as they liked and threw them into the sky. When you are the king these heroes were hit in this way. They destroyed the Madhuvanam and devoured the honey as they liked'.

एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम्।
अपृच्छ तं महाप्राज्ञो लक्ष्मणः परवीरह॥11||
किमयं वानरो राजन् वनपः प्रत्युपस्थितः।
कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्॥12||

स॥ एवं विज्ञाप्यमानं तं वानरर्षभं सुग्रीवं महाप्राज्ञः परवीरह लक्ष्मणः अपृच्छत्॥राजन् किं वनपः अयः वानरः प्रत्युपस्थितः । दुःखितः कं । अर्थम् अभिनिर्दिस्य वाक्यं अब्रवीत् ॥

The bull among Vanaras, who was thus being informed, was asked by Lakshmana who is wise, and who is the killer of enemies. ' Oh King ! Why is this protector of forest here. Why is he sad. For what purpose he is telling'.

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना।
लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः॥13||

स॥ महात्मना लक्ष्मणेन एवं उक्तः सुग्रीवः वाक्यविशारदः इदं वाक्यं लक्ष्मणं प्रत्युवाच॥

Thus asked by the great soul Lakshmana, Sugriva who is adept at the use of words spoke in reply to Lakshmana.

आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः।
अंगदप्रमुखैर्वीरैः भक्षितं मधु वानरैः॥14||
विचित्य दक्षिणामाशां आगतैर्हरिपुंगवैः।
नैषामकृतकृत्यानां ईदृशस्स्यादुपक्रमः॥15||
अगतैश्च प्रमथितं यथा मधुवनं हि तैः।
धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः॥16||

स॥ आर्य लक्ष्मण वीरः दधिमुखः कपिः संप्राह दक्षिणाम् आशां दिशां विचिन्त्य आगतैः अंगद प्रमुखैः वीरैः वानरैः मधु भक्षितं संप्राह॥ आगतैः तैः वानरैः मधुवनं यथा प्रमथितं कृत्स्नं वनं धर्षितं उपयुक्तं च एषां अकृतकृत्यानां ईदृशः उपक्रमः न स्यात् ॥

' Oh Venerable one ! Dadhimukha is saying that fruits and honey have been consumed by the Vanara heroes Angada and others, who have come after their search for Sita in the southern direction. The way the Madhuvanam is entered and destroyed, it is not done by those who have not accomplished their task' .

वनं यदाsभिपन्नास्ते साधितं कर्मवानरैः।
दृष्टा देवी न संदेहो न चान्येन हनूमता॥17||
न ह्यन्यः साधने हेतुः कर्मणोsस्य हनूमतः।
कार्यसिद्धिर्मतिश्चैव तस्मिन्वानरपुंगवे॥18||
व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्टितम्।

स॥ ते यदा वनं अभिपन्नाः वानरैः कर्म साधितं । देवी दृष्टा । न संदेहः न अन्येन न हनुमता॥अस्य कर्मनः साधने हनूमतः अन्यः हेतुः न हि कार्यसिद्धिः मतिश्चैव व्यवसायश्च वीर्यं च श्रुतं चापि तस्मिन् वानरपुंगवे प्रतिष्ठिताम्॥

' The way they the Vanaras, entered the grove they must have accomplished their task. They have seen the divine lady. Without any doubt (it is) by none other than Hanuman. In achieving this task only Hanuman has the ability because the capacity to accomplish the task, the wisdom , the effort, the strength and the enthusiasm ( to accomplish the task ) are all well established in him'.

जांबवान्यत्र नेतास्यादंगदश्च महाबलः॥19||
हनुमांश्चाप्यधिष्ठाता न तस्य गति रन्यथा।
अंगदप्रमुखैर्वीरैः हतं मधुवनं किल॥20||
वारयंतश्च सहिताः तथा जानुभिराहताः।
एतदर्थमयं प्राप्तो वक्तुं मधुरवा गिह॥21||
नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः।

स॥ यत्र जाम्बवान् नेता स्यात् महाबलः अंगदस्य च हनुमांश्च अधितिष्ठता तस्य गतिः अन्यथा न॥अंगदप्रमुखैः वीरैः मधुवनं हतं किल। सहिताः वारयन्तश्च तदा जानुभिः आहताः॥नाम्ना दधिमुखो नाम प्रख्यात् विक्रमः हरिः एतत् अर्थं वक्तुं मधुरवाक् इह प्राप्तः॥

' Where Jambavan is the leader, where the mighty Angada and Hanuman are directing, there the result has to be this only not otherwise. Angada and other leaders indeed destroyed the Madhuvanam. When prevented, they hit them on their knees. Hence the hero named Dadhimukha, a Vanara known for his valor came here to tell the sweet words'.

दृष्टा सीता महाबाहो सौमित्रे पश्यतत्त्वतः॥22||
अभिगम्य तथा सर्वे पिबंति मधु वानराः।
न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ॥23||
वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः।

स॥ महाबाहो सौमित्रे सीता तत्त्वतः दृष्टा। पश्य तथा वानराः सर्वे अभिगम्य मधु पिबन्ति॥पुरुषर्षभ विश्रुताः वनौकसः वैदेहीं अदृष्ट्वा दत्तवरं दिव्यं वनं न धर्षयेयुः॥

' Oh Mighty Saumitra ! Sita has been truly seen. See all the Vanaras having arrived drank honey ! Oh Bull among men ! Without seeing Sita, the renowned Vanaras, would not have destroyed the Madhuvanam which was granted as a boon '.

ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सह राघवः॥24||
श्रुत्वा कर्णसुखां वाणीं सुग्रीव वदनाच्च्युताम्।
प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः॥25||

स॥ ततः सह राघवः धर्मात्मा लक्ष्मणः प्रहृष्टः सुग्रीववदनात् च्युतं कर्णसुखां वाणीं श्रुत्वा रामः प्राहृष्यत। लक्ष्मणः महाबलः भृशं प्राहृष्यत॥

Then Lakshmana along with Raghava was delighted by the words spoken by Sugriva which were pleasing to the ears. Rama was delighted. The mighty hero Lakshmana too was delighted.

श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।
वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत॥26||

स॥ सुग्रीवः दधिमुखस्य इदं श्रुत्वा संप्रहृष्य च पुनः वनपालं वाक्यं प्रत्यभाषत॥

Sugriva having heard the words of Dadhimukha , again very pleased spoke to Dadhimukha, the forest protector.

प्रीतोsस्मि सोsहं यद्भुक्तं वनं तैः कृतकर्मभिः।
मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम्॥27||
इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगां स्तान् मृगराज दर्पान्।
द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम्॥28||

स॥ कृतकर्मभिः तैः वनं यत् भुक्तं सः अहं प्रीतः । कृतकार्यमाणाम् मर्षणीयं चेष्टितं मर्षिताम्॥हनुमत्प्रधानान् मृगराजदर्पान् कृतार्थान् तान् शाखामृगान् राघवाभ्यां सह द्रष्टुं सीताधिगमेन प्रयत्नं श्रोतुं च इच्छामि॥

' I am happy that the Madhuvanam is eaten by those who accomplished their task. The act of those who accomplished their task is excused. I along with Raghava and others want to hear from Hanuman and others who have suceeded, who have the majesty of a lion and who live on the trees'.

प्रीतिस्फीताक्षौ संप्रहृष्टौ कुमारौ
दृष्ट्वा सिद्दार्थौ वानराणां च राजा।
अंगैः संहृष्टैः कर्मसिद्धिं विदित्वा
बाह्वोरासन्नां सोsतिमात्रं ननंद॥29||

स॥ सः वानराणां राजा प्रीतिस्फीताक्षौ संप्रहृष्टौ सिद्धार्थौ कुमारौ दृष्ट्वा संहृष्टैः अंगैः कर्मसिद्धिं बाह्वोः आसन्नां विदित्वा अतिमात्रं ननन्द॥

Sugriva the king of Vanaras , eyes filled with joy, seeing the delighted young princes, delighted at the fulfilment of the task, felt a thrill all over his body, realizing that good time has come. And he was delighted.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे त्रिषष्टितमस्सर्गः ॥

Thus ends the Sarga sixty three of Sundarakanda in Ramayana the first poem ever composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat||