||Sundarakanda ||

|| Sarga 64||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ चतुष्षष्टितमस्सर्गः॥

सुग्रीवैणेव मुक्तस्तु हृष्टो दधिमुखः कपिः।
राघवं लक्ष्मणं चैव सुग्रीवं चाsभ्यवादयत्॥1||

स प्रणम्य च सुग्रीवं राघवौ च महाबलौ।
वानरैस्सहितैः शूरैर्दिवमेवोत्पपात ह॥2||

स यथैवाsगतः पूर्वं तथैव त्वरितं गतः।
निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह॥3||

स प्रविष्टो मधुवनं ददर्श हरियूथपान्।
विमदान् उत्थितान् सर्वान् मेहमानान् मधूदकम्॥4||

स तानुपागमद्वीरो बद्द्वा करपुटांजलिम्।
उवाच वचनं श्ल‍‍क्ष्‍ण मिदं हृष्टवदंगदम्॥5||

सौम्यरोषो न कर्तव्यो यदेभिरभिवारितः।
अज्ञानाद्रक्षिभिः क्रोधात् भवंतः प्रतिषेधिताः॥6||

युवराजः त्वमीशश्च वनस्यास्य महाबलः।
मौर्खात् पूर्वं कृतो दोषः तं भवान् क्षंतुमर्हति॥7||

अख्यातं हि मया गत्वा पितृव्यस्य तवानघ।
इहोपयातं सर्वेषां एतेषां वनचारिणाम्॥8||

स त्व दागमनं श्रुत्वा सहैभिर्हरियूधपैः।
प्रहृष्टो नतु रुष्टोsसौ वनं श्रुत्वा प्रधर्षितम्॥9||

प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः।
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः॥10||

श्रुत्वा दधिमुखस्येदं वचनं श्ल‌क्ष‍णमंगदः।
अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्य विशारदः॥11||

शंकेश्रुतोsयं वृत्तांतो रामेण हरियुथपाः।
तत् क्षणं नेह न स्थ्सातुं कृते कार्ये परंतपाः॥12||

पीत्वा मधु यथाकामं विश्रांता वनचारिणः।
किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः॥13||

सर्वे यथा मां वक्ष्यंते समेत्य हरियूथपाः।
तथाsस्मि कर्ता कर्तव्ये भवद्भिः परवानहम्॥14||

नाज्ञापयितु मीशोsहं युवराजोsस्मि यद्यपि।
अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया॥15||

ब्रुवतश्चांगदस्यैवं श्रुत्वा वचनमव्ययम्।
प्रहृष्टो मनसो वाक्यमिदमूचुर्वनौकसः॥16||

एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ।
इश्वर्यमदमत्तो हि सर्वोsहमिति मन्यते॥17||

तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्।
सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम्॥18||

सर्वे वयमपि प्राप्ताः तत्र गंतुं कृतक्षणाः।
स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः॥19||

त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम्।
क्वचित् गंतुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते॥20||

एवं तु वदताम् शेषां अंगदः प्रत्युवाच ह।
बाढं गच्चाम इत्युक्ता खमुत्पेतुर्महाबलाः॥21||

उत्पतंतमनूत्पेतुः सर्वे ते हरियूथपाः।
कृत्वाकाशं निराकाशं यंत्रोत् क्षिप्ता इवाचलाः॥22||

तेंबरं सहसोत्पत्य वेगवंतः प्लवंगमाः।
निनदंतो महानादं घना वातेरिता यथा॥23||

अंगदे समनुप्राप्ते सुग्रीवो वानराधिपः।
उवाच शोकोपहतं रामं कमललोचनम्॥24||

समाश्वसिहि भद्रं ते दृष्टादेवी न संशयः।
नागंतु मिह शक्यं तै रतीते समये हि नः॥25||

न मत्सकाश मागच्छेत् कृत्ये हि विनिपातिते।
युवराजो महाबाहुः प्लवतां प्रवरोंगदः॥26||

यद्यप्यकृतकृत्यानां ईदृशः स्यादुपक्रमः।
भवेत् स दीनवदनो भ्रांत विप्लुतमानसः॥27||

पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम्।
न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः॥28||

कौसल्या सुप्रजा राम समाश्वसि हि सुव्रत।
दृष्टा देवी न संदेहो न चान्येन हनूमता॥29||

न ह्यन्यः कर्मणो हेतुः साधनेsस्य हनूमतः।
हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम॥30||

व्यवसायश्च वीर्यं च सूर्ये तेज इव द्रुवम्।
जांबवान्यत्र नेतास्यादंगदश्च बलेश्वरः॥31||

हनुमांश्चाप्यथिष्ठाता न तस्य गतिरन्यथा।
माभूश्चिंता समायुक्तः संप्रत्यमितविक्रमः॥32||

ततः किलकिलाशब्दं शुश्रावासन्नमंबरे।
हनुमत्कर्म दृप्तानां नर्दतां काननौकसाम्॥33||

किष्किंधामुपयातानां सिद्धिं कथयता मिव।
ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः॥34||

अयतांचितलांगूलः सोsभवद्दृष्टमानसः।
अजग्मुस्तेsपि हरयो रामदर्शनकांक्षिणः॥35||

अंगदं पुरतः कृत्वा हनूमंतं च वानरम्।
ते अंगद प्रमुखावीराः प्रहृष्टाश्च मुदान्वितः॥36||

निपेतुर्हरिराजस्य समीपे राघवस्य च।
हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः॥37||

नियतामक्षतां देवीं राघवाय न्यवेदयत्।
निश्चितार्थः ततः तस्मिन् सुग्रीवः पवनात्मजे॥38||

लक्ष्मणः प्रीतिमान् प्रीतं बहुमनादवैक्षत।
प्रीत्या रममाणोsथ राघवः परवीरह॥
बहुमानेन महता हनुमंत मवैक्षता॥39||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चतुष्षष्टितमस्सर्गः॥

|| Om tat sat ||