||Sundarakanda ||

|| Sarga 64||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ चतुष्षष्टितमस्सर्गः॥

सुग्रीवैणेव मुक्तस्तु हृष्टो दधिमुखः कपिः।
राघवं लक्ष्मणं चैव सुग्रीवं चाsभ्यवादयत्॥1||
स प्रणम्य च सुग्रीवं राघवौ च महाबलौ।
वानरैस्सहितैः शूरैर्दिवमेवोत्पपात ह॥2||

स॥ दधिमुखः हृष्ठः सुग्रीवेण उक्तः तु राघवं लक्ष्मणं च सुग्रीवं एव अ अभ्यवादयत्॥सः महाबलौ राघवौ सुग्रीवं च प्रणम्य शूरैः वानरैः सहितः दिवमेव उत्पपात॥

Thus told by Sugriva, Dadhimukha was pleased. Then he bowed to Raghava, Lakshmana and Sugriva. He offered salutations to Raghava and Lakshmana as well as Sugriva and flew into the sky along with his followers.

स यथैवाsगतः पूर्वं तथैव त्वरितं गतः।
निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह॥3||
स प्रविष्टो मधुवनं ददर्श हरियूथपान्।
विमदान् उत्थितान् सर्वान् मेहमानान् मधूदकम्॥4||

स॥सः पूर्वं यथा आगतः तथैव त्वरितं गतः गगनात् भूमौ निपत्य तत् वनं प्रविवेश ह॥ सः मधुवनं प्रविष्टः विमदान् मधूदकं मेहमानान् उत्थितान् सर्वान् हरियूथपान् ददर्श॥

Travelling the same path which he followed before, he went quickly and landed on the ground and entered that grove. He entered the Madhuvanam and saw the Vanaras free from intoxication of honey, having passed water.

स तानुपागमद्वीरो बद्द्वा करपुटांजलिम्।
उवाच वचनं श्ल‍‍क्ष्‍ण मिदं हृष्टवदंगदम्॥5||
सौम्यरोषो न कर्तव्यो यदेतत्परिवारितं।
अज्ञानाद्रक्षिभिः क्रोधात् भवंतः प्रतिषेधिताः॥6||

स॥ सः उपागमत् वीरः अंगदं करपुटांजलिम् बद्ध्वा इदं श्ल‍क्ष‍णं वचनं उवाच।सौम्य भवन्तः रोषः न कर्तव्यः । एतत् यत् परिवारितं रक्षिभिः अज्ञानात् क्रोधात् प्रतिषेधिताः ।

Having returned, he said with folded hands the following conciliatory words. ' Oh Prince of mild disposition ! You do not be harsh. Your companions were restrained out of our ignorance and anger '.

युवराजः त्वमीशश्च वनस्यास्य महाबलः।
मौर्खात् पूर्वं कृतो दोषः तं भवान् क्षंतुमर्हति॥7||
अख्यातं हि मया गत्वा पितृव्यस्य तवानघ।
इहोपयातं सर्वेषां एतेषां वनचारिणाम्॥8||
स त्व दागमनं श्रुत्वा सहैभिर्हरियूधपैः।
प्रहृष्टो नतु रुष्टोsसौ वनं श्रुत्वा प्रधर्षितम्॥9||
प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः।
शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः॥10||

स॥ महाबलः त्वं युवराजः अस्य वनस्य ईशश्च । मौर्खात् पूर्वं कृतं दोषः भवान् क्षंतुं अर्हति॥अनघा ! मया गत्वा तव पितृव्यस्य सर्वेषां एतेषां वनचारिणं इह उपायातं अख्यातम् हि ॥सः त्वत् आगमनं श्रुत्वा प्रहृष्टः । ते पितृव्यः वानरेश्वरः सुग्रीवः असौ वनं प्रधर्षितं श्रुत्वा न तु रुष्टः॥ तान् सर्वां शीघ्रं प्रेषय इति पार्थिवं मां उवाच॥

' Oh Mighty one ! You are the prince and the Lord of this grove. You can excuse this mistake done in foolishness. Oh Sinless one ! I went and told the elder brother of your father about the arrival of the Vanaras. He having heard about your arrival was pleased. The elder brother of your father, Sugriva hearing about the destruction of the grove he was not angry. The king told me " Send all of them here quickly."

श्रुत्वा दधिमुखस्येदं वचनं श्ल‌क्ष‍णमंगदः।
अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्य विशारदः॥11||
शंकेश्रुतोsयं वृत्तांतो रामेण हरियुथपाः।
तत् क्षणं नेह न स्थ्सातुं कृते कार्ये परंतपाः॥12||

स॥ दधिमुखस्य इदं श्लक्षणं वचनं श्रुत्वा अंगदः वाक्य विशारदः हरिश्रेष्टः तान् अब्रवीत् ॥परंतपाः हरियूथपाः अयं वृत्तांतः रामेण श्रुतः । शंके तत् कार्ये कृते इह स्थातुं नः न क्षमम्॥

Hearing those conciliatory words of Dadhimukha , Angada, the best of Vanaras, who is expert in use of words, spoke to them, the Vanaras. ' Oh Scorchers of enemies !, Elephants among the Vanaras ! This information has already been heard by Rama. I think that with the task having been accomplished it is not proper for us to stay here'.

पीत्वा मधु यथाकामं विश्रांता वनचारिणः।
किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः॥13||
सर्वे यथा मां वक्ष्यंते समेत्य हरियूथपाः।
तथाsस्मि कर्ता कर्तव्ये भवद्भिः परवानहम्॥14||
नाज्ञापयितु मीशोsहं युवराजोsस्मि यद्यपि।
अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया॥15||

स॥वनचारिणः यथाकामं मधु पीत्वा विश्रान्ताः किं शेषं । मे गुरु सुग्रीवः यत्र तत्र गमनम्॥सर्वे हरियूथपः समेत्य माम् यथा वक्ष्यन्ति यथा कर्ता अस्मि कर्तव्ये अहं भवद्भिः परवान्॥अहं युवराजः अस्मि । यद्यपि कृतकर्मानः आज्ञापयितुं न ईशः । युयं मया धर्षयितुं अयुक्तं॥

Oh Forest dwellers! Having drunk honey and rested what is left ? We go to the place where our leader Sugriva is. I will follow what ever you all together tell me to do as our duty. I am the prince. I am not the lord to order you, who have accomplished the task. My ordering you is not proper.

ब्रुवतश्चांगदस्यैवं श्रुत्वा वचनमव्ययम्।
प्रहृष्टो मनसो वाक्यमिदमूचुर्वनौकसः॥16||
एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ।
इश्वर्यमदमत्तो हि सर्वोsहमिति मन्यते॥17||

स॥ अंगदस्य एवं अव्ययं वचनं श्रुत्वा , वनौकसः एवं ब्रुवतः प्रहृष्ट मनसः वाक्यं इदं ऊचुः॥ वानररर्षभ राजन् एवं कः वक्ष्यति । प्रभुः इश्वर्य मदमत्तो हि सर्वः अहं इति मन्यते ।

Hearing those words of Angada, the forest dwellers , delighted at being told thus, said the following. ' Oh Bull among the Vanaras ! Lord ! Who will say like this. Arrogant on account of prosperity kings think I am everything'.

तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित्।
सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम्॥18||
सर्वे वयमपि प्राप्ताः तत्र गंतुं कृतक्षणाः।
स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः॥19||

स॥ इदं वाक्यं सुसदृशं अन्यस्य कस्यचित् न । तव सन्नतिः भविष्यत् शुभ योग्यताम् आख्याति ॥सर्वे वयं अपि प्राप्ताः यत्र हरवीराणां अव्ययः पतिः सुग्रीवः तत्र गंतुं कृतक्षणाः ॥

'These words are proper, not otherwise. Your humbleness speaks for good for bright future. We are all ready any moment to go to where our immortal Lord Sugriva is'.

त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम्।
क्वचित् गंतुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते॥20||
एवं तु वदताम् शेषां अंगदः प्रत्युवाच ह।
बाढं गच्चाम इत्युक्ता खमुत्पेतुर्महाबलाः॥21||

स॥ हरिश्रेष्ठ त्वया अनुक्तैः हरिभिः पदात् पदं क्वचित् गन्तुं न शक्यं । सत्यं इदं ते ब्रूमः॥तेषाम् इदं वदतां अंगदः बाडं गच्छाम (इति) प्रत्युवाच ह। इति उक्त्वा महाबलाः खं उत्पेतुः॥

'Oh Best of Vanaras ! Without your saying a word, it is not possible for the Vanaras to move one step. This is true. We are telling you '. When they said as above, Angada said 'very good, let us go'. Having said this the mighty ones flew into the sky.

उत्पतंतमनूत्पेतुः सर्वे ते हरियूथपाः।
कृत्वाकाशं निराकाशं यंत्रोत् क्षिप्ता इवाचलाः॥22||
तेंबरं सहसोत्पत्य वेगवंतः प्लवंगमाः।
निनदंतो महानादं घना वातेरिता यथा॥23||

स॥सर्वे ते हरियूथपाः यन्त्रोक्षिप्ताः अचलाः इव आकाशं निराकाशं कृत्वा उत्पतंतं अनूत्पेतुः॥वेगवन्तः ते प्लवंगमः अंबरं उत्पत्य वातेरिता घनाः इव महानादं निनदन्तः ॥

All the Vanaras sprang into the sky as though there was no sky, like the stones scattered by machines from the mountains rise up. Having risen to the sky , the speedy fliers roared like the clouds driven by the wind.

अंगदे समनुप्राप्ते सुग्रीवो वानराधिपः।
उवाच शोकोपहतं रामं कमललोचनम्॥24||
समाश्वसिहि भद्रं ते दृष्टादेवी न संशयः।
नागंतु मिह शक्यं तै रतीते समये हि नः॥25||

स॥अंगदः अनुप्राप्ते वानराधिपः सुग्रीवः शोकोपहतं कमललोचनं उवाच॥समाश्वसिहि । ते भद्रं । देवी दृष्टा न संशयः । तैः समये अतीते इह नः आगन्तुं न शक्यं ॥

Before the arrival of Angada, the king of Vanaras, Sugriva told the lotus eyed lord stricken with grief. 'Trust me. Be blessed. The divine lady has been seen, without any doubt. With the time limit having been crossed they cannot be coming here otherwise '.

न मत्सकाश मागच्छेत् कृत्ये हि विनिपातिते।
युवराजो महाबाहुः प्लवतां प्रवरोंगदः॥26||
यद्यप्यकृतकृत्यानां ईदृशः स्यादुपक्रमः।
भवेत् स दीनवदनो भ्रांत विप्लुतमानसः॥27||

स॥ युवराजः महाबाहुः प्लवतां प्रवरः अंगदः कृत्ये विनिपातिते मत्सकासं न आगच्छेत्॥अकृतकृत्यानां उपक्रमः ईदृशः यद्यपि स्यात् सः दीनवदनः भ्रान्तविप्लुतमानसः भवेत्॥

' The prince Angada , who is with strong arms , who is best among the fliers, without completing the task cannot be coming near me. Those who have completed their task will not be like this. They will be with piteous face , with unsteady mind'.

पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम्।
न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः॥28||
कौसल्या सुप्रजा राम समाश्वसि हि सुव्रत।

स॥ प्लवगेश्वरः अहृष्टः पितृपैतामहं पूर्वकैः अभिरक्षितं मे मधुवनं न हन्यात् । कौसल्या सुप्रजाः सुव्रत राम समाश्वसिहि॥

'The best of fliers if he is not happy, he would not have destroyed the Madhuvanam which is protected from my father's and grand father's time'.

दृष्टा देवी न संदेहो न चान्येन हनूमता॥29||
न ह्यन्यः कर्मणो हेतुः साधनेsस्य हनूमतः।
हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम॥30||
व्यवसायश्च वीर्यं च सूर्ये तेज इव द्रुवम्।
जांबवान्यत्र नेतास्यादंगदश्च बलेश्वरः॥31||
हनुमांश्चाप्यथिष्ठाता न तस्य गतिरन्यथा।
माभूश्चिंता समायुक्तः संप्रत्यमितविक्रमः॥32||

स॥ हनुमता देवी दृष्टा । न च अन्येन । न सन्देहः । अस्य कर्मणः साधने हेतुः हनूमतः॥ मतिसत्तम हनूमति सूर्येः तेजः इव सिद्धिश्च मतिश्च व्यवसायश्च वीर्यं च धृवं॥यत्र नेता जांबवान् स्यात् महाबलः अंगदश्च हनुमांश्च अधिष्ठता तस्य गतिः अन्यथा ( न भवेत्)॥अमितविक्रमाः संप्रति चिन्ता समायुक्तः माभूः।

'The divine lady has been seen by Hanuman. No others. The reason for the achievment of this task is Hanuman. The intelligent Hanuman with brilliance of the Sun, certainly has the intelligence, the effort , and the valor and the capacity to succeed. Where Jambavan is the leader and Hanuman and Angada are the guiding forces, the result will not be otherwise. You are extremely valiant. This is not the time to be worried'.

ततः किलकिलाशब्दं शुश्रावासन्नमंबरे।
हनुमत्कर्म दृप्तानां नर्दतां काननौकसाम्॥33||
किष्किंधामुपयातानां सिद्धिं कथयता मिव।

स॥ततः हनुमत्कर्म दृप्तानां नार्धताम् सिद्धिं कथयतां इव किष्किंधां उपायातानां काननौकसां अंबरे आसन्नं किलकिलाशब्दं शुश्राव॥

At that time the forest dwellers arrived at Kishkindha roaring, being proud of Hanuman's success having succesfully completed their task, and their chattering noise could be heard.

ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः॥34||
अयतांचितलांगूलः सोsभवद्दृष्टमानसः।
अजग्मुस्तेsपि हरयो रामदर्शनकांक्षिणः॥35||
अंगदं पुरतः कृत्वा हनूमंतं च वानरम्।

स॥ ततः स कपिसत्तमः कपीनाम् तं निनादं श्रुत्वा अयतांचित लांगूलः हृष्टमानसः अभवत्॥ते हरयः कपिः अंगदं वानरं हनूमंतं पुरतः कृत्वा रामदर्शनकांक्षिणः आजग्मुः॥

Then that chief of Vanaras hearing the roar of the Vanaras was extremely happy. He kept raising and shaking his long tail. The Vanaras with Angada and Hanuman in the front landed, desirous of seeing Rama.

ते अंगद प्रमुखावीराः प्रहृष्टाश्च मुदान्वितः॥36||
निपेतुर्हरिराजस्य समीपे राघवस्य च।
हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः॥37||
नियतामक्षतां देवीं राघवाय न्यवेदयत्।

स॥ अंगदप्रमुखाः ते वीराः प्रहृष्टश्च मुदा अन्विताः हरिराजस्य राघवस्य च समीपे निपेतुः ॥ततः महाबाहुः हनुमान् प्रणम्य देवीं नियतां अक्षतां राघवाय न्यवेदयत्॥

The heroes, Angada and others delighted and very happy, landed near the king of Vanaras and Rama. Hanuman the strong armed one, bowing with his head, informed Rama that the divine lady with constant devotion is safe.

दृष्टा देवीति हनौमद्वदनात् अमृतोपमं।
आकर्ण्य वचनं रामो हर्षंआप सलक्ष्मणः॥38||
निश्चितार्थः ततः तस्मिन् सुग्रीवः पवनात्मजे॥
लक्ष्मणः प्रीतिमान् प्रीतं बहुमनादवैक्षत।

स॥ सलक्ष्मणः रामः हनुमत् वदनात् अमृतोपपं दृष्टा देवी इति वचनं आकर्ण्य हर्षं आप॥ततः लक्ष्मणः तस्मिन् पवनात्मजे निश्चितार्थं प्रीतं सुग्रीवं बहुमानात् अवैक्षत॥

Hearing those words ' Divine lady is seen' which are like nectar from Hanuman, Rama along with Lakshmana was delighted. Then Lakshmana surely looked at the son of wind god with affection, and saw Sugriva with respect.

प्रीत्या रममाणोsथ राघवः परवीरह॥
बहुमानेन महता हनुमंत मवैक्षता॥39||

स॥ परवीरह राघवः रममाणः उपेतः महता बहुमानेन हनुमन्तं अवैक्षत॥

The slayer of heroic enemies Raghava entered a state of delight and glanced at Hanuman with unbounded affection.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे चतुष्षष्टितमस्सर्गः॥

Thus ends the Sarga sixty four of Sundarakanda in Ramayana , the first poem ever composed in Sanskrit by the first poet sage Valmiki
|| ओम् तत् सत्||