||Sundarakanda ||

|| Sarga 67||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ सप्तषष्टितमस्सर्गः॥

एवमुक्तस्तु हनुमान् राघवेण महात्मना।
सीताया भाषितं सर्वं न्यवेदयत राघवे॥1||

इदमुक्तवती देवी जानकी पुरुषर्षभ।
पूर्ववृत्त मभिज्ञानं चित्रकूटे यथातथम्॥2||

सुखसुप्ता त्वया सार्थं जानकी पूर्वमुत्थिता।
वायसः सहसोत्पत्य विददार स्तनांतरे॥3||

पर्यायेण च सुप्तत्वं देव्यंके भरताग्रज।
पुनश्च किल पक्षी स देव्या अजनयत् व्यथाम्॥4||

पुनः पुनरुपागम्य विददार भृशं किल।
ततस्त्वं बोधितस्तस्याः शोणितेन समुत्‍क्षितः॥5||

वायसेव च ते नैव सततं बाध्यमानया।
बोधितः किल देव्या त्वं सुखसुप्तः परंतप॥6||

तां तु दृष्ट्वा महाबाहो दारितां च स्तनांतरम्।
अशी विष इव क्रुद्धो निश्वसन् अभ्यभाषथाः॥7||

नखाग्रैः केन ते भीरु दारितं तु स्तनांतरम्।
कः क्रीडति सरोषेण पंचवक्त्रेण भोगिना॥8||

निरीक्षमाणः सहसा वायसं समवैक्षथाः।
नखैः सरुधिरैः तीक्ष्‍णैः तामेवाभिमुखं स्थितम्॥9||

सुतः किल स शक्रस्य वायसः पततां वरः।
धरांतरः शीघ्रं पवनस्य गतौ समः॥10||

ततस्तस्मिन् महाबाहो कोप संवर्तितेक्षणः।
वायसे त्वं कृथाः क्रूरां मतिं मतिमतांवर॥11||

सदर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण ह्ययोजयः।
प्रदीप्त इव कालाग्निः जज्वालाभिमुखः खगम्॥12||

क्षिप्तवां स्त्वं प्रदीप्तं हि दर्भं तं वायसं प्रति ।
ततस्तु वायसं दीप्तः सदर्भोsनुजगाम ह॥13||

स पित्रा च परित्यक्तैः सुरैश्च समहर्षिभिः।
त्रीन् लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति॥14||

पुनरेवागतस्त्रस्तः त्वत्सकाश मरिंदम।
स तं निपतितं भूमौ शरण्यः शरणागतम्॥15||

वधार्हमपि काकुत्‍स्थ कृपया पर्यपालयः।
मोघमस्त्रं न शक्यं तु कर्तु मित्येव राघव॥16||

भवांस्तस्याक्षि काकस्य हिनस्तिस्म स दक्षिणम्।
रामं त्वां स नमस्कृत्य राज्ञे दशरथाय च॥17||

विशृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम्।
एवमस्त्र विदां श्रेष्ठः सत्त्ववान् शीलवानपि॥18||

किमर्थमस्त्रं रक्षस्सु न योजयति राघवः।
न नागा नापि गंधर्वा ना सुरा न मरुद्गणाः॥19||

न च सर्वे रणे शक्ता रामं प्रति समासितुम्।
तस्य वीर्यवतः कश्चित् यद्यस्ति मयि संभ्रमः॥20||

क्षिप्रं सुनुशितैर्बाणैः हन्यतां युधिरावणः।
भ्रातु रादेश माज्ञाय लक्ष्मणो वा परंतपः॥21||

स किमर्थं नरवरो न मां रक्षति राघवः।
शक्तौतौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ॥22||

सुराणामपि दुर्दर्षौ किमर्थं मामुपेक्षतः।
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः॥23||

समर्थौ सहितौ यन्मां नावेक्षेते परंतपौ।
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्॥24||

पुनरप्यह मार्यां ता मिदं वचनमब्रुवम्।
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे॥25||

रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते।
कथंचित् भवती दृष्टा न कालः परिशोचितुम्॥26||

अस्मिन्मुहूर्ते दुःखानां अंतं द्रक्ष्यसि भामिनि।
तावुभौ नरशार्दूलौ राजपुत्रौ वनिंदितौ॥27||

त्वदर्शनकृतोत्साहौ लंकां भस्मीकरिष्यतः।
हत्वा च समरे रौद्रं रावणं सहबांधवम्॥28||

राघवस्त्वां वरारोहे स्वां पुरीं नयते ध्रुवं।
यत्तु रामो विजानीयात् अभिज्ञानमनिंदिते॥29||

प्रीतिसंजननं तस्य प्रदातुं त्व मिहार्हसि।
साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथन मुत्तमम्॥30||

मुक्तावस्त्राद्ददौ मह्यं मणिमेतं महाबल।
प्रतिगृह्य मणिं दिव्यं तव हेतो रघूद्वह॥31||

शिरसा तां प्रणम्यार्यां अहमागमने त्वरे।
गमने च कृतोत्साहं अवेक्ष्य वरवर्णिनी॥32||

विवर्थमानं च हि मामुवाच जनकात्मजा।
अश्रुपूर्णमुखी दीना भाष्पसंदिग्धभाषिणी॥33||

ममोत्पतनसंभ्रांता शोकवेगसमाहता।
हनुमन् सिंहसंकाशा वुभौ तौ रामलक्ष्मणौ॥34||

सुग्रीवं च सहामात्यं सर्वान् ब्रूया ह्यनामयम्।
यथा च स महाबाहुः मां तारयति राघवः।
अस्मादुःखांबु संरोधात् त्वं समाधातुमर्हसि॥35||

इमं च तीव्रं मम शोकवेगं
रक्षोभिरेभिः परिभर्त्सनं च।
ब्रूयास्तु रामस्य गतस्समीपम्
शिवश्च ते sध्वास्तु हरिप्रवीर॥36||

एतत्त वार्या नृपराजसिंह
सीता वचः प्राह विषादपूर्वम्।
एतच्च बुद्ध्वा गदितं मया त्वम्
श्रद्दत्स्व सीतां कुशलां समग्राम्॥37||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे सप्तषष्टितमस्सर्गः॥

|| Om tat sat ||