||Sundarakanda ||

|| Sarga 68||( Only Slokas in Devanagari) )

हरिः ओम्

 

सुंदरकांड.
अथ अष्टषष्टितमस्सर्गः॥

अथाह मुत्तरं देव्या पुनरुक्तः ससंभ्रमः।
तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्यवै॥1||

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया।
यथा मामाप्नुयात् शीघ्रं हत्वा रावणमाहवे॥2||

यदि वा मन्यसे वीर वसैकाsह मरिंदम।
कस्मिंश्चित् संवृते देशे विश्रांतः श्वोगमिष्यसि॥3||

ममचाल्पभाग्यायाः सान्निध्यात् तव वीर्यवान्।
अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम्॥4||

गते हित्वयि विक्रांते पुनरागमनायवै।
प्राणानामपि संदेहो ममस्यान्नात्र संशयः॥5||

तवादर्शनज श्शोको भूयो मां परितापयेत्।
दुःखाद्दुःख पराभूतां दुर्गतां दुःखभागिनीम्॥6||

अयं च वीर संदेहः तिष्ठतीव ममाग्रतः।
सुमहांस्त्वत् सहायेषु हर्यृक्षेषु हरीश्वर॥7||

कथं नु खलु दुष्पारं तरिष्यंति महोदधिम्।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ॥8||

त्रयाणामेव भूतानां सागरस्यास्य लंघने।
शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा॥9||

तदस्मिन् कार्य निर्योगे वीरैवं दुरतिक्रमे।
किं पश्यसि समाधानं ब्रूहि कार्यविदां वर॥10||

काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः॥11||

बलैः समग्रैर्यदि मां हत्वा रावणमाहवे।
विजयी स्वां पुरीं रामो नयेत् तस्याद्यशस्करम्॥12||

यथाsहं तस्य वीरस्य वनादुपथिना हृता।
रक्षसा तद्भया देव तथा नार्हति राघवः॥13||

बलैस्तु संकुलां कृत्वा लंकां परबलार्दनः।
मां नयेद्यदि काकुत्‍स्थः तत् तस्य सदृशं भवेत्॥14||

तद्यथा तस्य विक्रांतमनुरूपं महात्मनः।
भवत्याहवशूरस्य तथा त्वमुपपादय॥15||

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्।
निशम्याहं ततश्शेषं वाक्य मुत्तरमब्रुवन्॥16||

देवी हर्यृक्ष सैन्यानां ईश्वरः प्लवतां वरः।
सुग्रीवः सत्त्वसंपन्नः तवार्थे कृत निश्चयः॥17||

तस्य विक्रमसंपन्नाः सत्त्ववंतो महाबलाः।
मनः संकल्पसंपाता निदेशे हरयः स्थिताः॥18||

येषां नोपरिनाधस्तान् नतिर्यक् सज्जते गतिः।
न च कर्मसु सीदंति महत्स्वमित तेजसः॥19||

असकृत्तैर्महाभागैः वानरैर्बलदर्पितैः।
प्रदक्षिणीकृता भूमि र्वायुमार्गानुसारिभिः॥20||

मद्विशिष्ठाश्च तुल्याश्च संति तत्र वनौकसः।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीव सन्निधौ॥21||

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः।
नहि प्रकृष्टाः प्रेष्यंते प्रेष्यंते हीतरे जनाः॥22||

तदलं परिपातेन देवि मन्युर्व्यपैतु ते।
एकोत्पातेन वै लंका मेष्यंति हरियूथपाः॥23||

ममपृष्ठगतौ तौ च चंद्रसूर्याविवोदितौ।
त्वत्सकाशं महाभागे नृशिंहवागमिष्यतः॥24||

अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवं।
लक्ष्मणं च धनुष्पाणिं लंकाद्वारमुपस्थितम्॥25||

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्।
वानरान् वारणेंद्राभान् क्षिप्रं द्रक्ष्यसि संगतान्॥26||

शैलांबुदनिकाशानां लंकामलयसानुषु।
नर्दतां कपिमुख्यानां अचिराच्छ्रोष्यसि स्वनम्॥27||

निवृत्त वनवासं च त्वया सार्थ मरिंदमं।
अभिषिक्त मयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्॥28||

ततो मयावाग्बिरदीनभाषिणा
शिवाभिरिष्टाभिरभिप्रसादिता।
जगाम शांतिं मममैथिलात्मजा
तवापि शोकेन तदाsभिपीडिता॥29||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे अष्टषष्टितमस्सर्गः॥
श्रीसुंदरकांडः समाप्तः॥
हरि ओम् तत सत्॥
सर्वं श्री रामचंद्रार्पणमस्तु॥

 

|| Om tat sat ||