||Sundarakanda ||

|| Sarga 68||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ अष्टषष्टितमस्सर्गः॥

अथाह मुत्तरं देव्या पुनरुक्तः ससंभ्रमः।
तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्यवै॥1||

स॥ नरव्याघ्र ! तव स्नेहात् सौहार्दात् ससंभ्रमः देव्याः अनुमान्य देव्या उत्तरं पुनः उक्तः ॥

'Oh Tiger among men! Because of the affection for you and love, the Devi addressed me again with confidence'.

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया।
यथा मामाप्नुयात् शीघ्रं हत्वा रावणमाहवे॥2||

स॥ शीघ्रं रावणं हत्वा यथामां अप्नुयात् ( तथैव) रामः दाशरथिः त्वया बहुविधं वाच्यः

'You may appeal to Rama in many ways so that he will quickly kill Ravana and get me back' .

यदि वा मन्यसे वीर वसैकाsह मरिंदम।
कस्मिंश्चित् संवृते देशे विश्रांतः श्वोगमिष्यसि॥3||
ममचाल्पभाग्यायाः सान्निध्यात् तव वीर्यवान्।
अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम्॥4||
गते हित्वयि विक्रांते पुनरागमनायवै।
प्राणानामपि संदेहो ममस्यान्नात्र संशयः॥5||
तवादर्शनज श्शोको भूयो मां परितापयेत्।
दुःखाद्दुःख पराभूतां दुर्गतां दुःखभागिनीम्॥6||

स॥ अरिंदम ! वीर ! यदि मन्यसे (तदि) कस्मिंस्वित् एकाहं संवृते प्रदेशे विश्रान्तः श्वः (त्वं) गमिष्यसि ॥तव सान्निध्यात् मम च अल्पभाग्यायाः अस्य शोकविपाकस्य मुहूर्तं विमोक्षणं स्यात्॥विक्रांते त्वयि गते पुनरागमनाय वै मम प्राणानां अपि संदेहाः स्यात् । अत्र न शंसयः ॥ दुःखात् दुःखभागिनीं दुर्गतां मां तव अदर्शनजः शोकं भूयः मां परितापयेत्॥

" Oh Crusher of enemies ! If you think it is possible take rest at a lonely place for the night and then go. Because of your presence here , this less fortunate one will be freed from the sorrow for a while. Oh Valiant one ! When you go my life will also be in doubt by the time you come back. There is no doubt about this. Afflicted by sorrow , this unfortunate one , the sorrow of not being able to see you will again make me lament".

अयं च वीर संदेहः तिष्ठतीव ममाग्रतः।
सुमहांस्त्वत् सहायेषु हर्यृक्षेषु हरीश्वर॥7||
कथं नु खलु दुष्पारं तरिष्यंति महोदधिम्।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ॥8||
त्रयाणामेव भूतानां सागरस्यास्य लंघने।
शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा॥9||

स॥ वीर हरीश्वर त्वत् सुमहान् सहायेषु हर्यक्षेषु अयं संदेहः च मम अग्रतः तिष्ठति॥दुष्पारं महोदधिं तानि हर्यक्ष सैन्यानि कथं नु तरिष्यंति खलु ॥अस्य सागरस्य लंघने भूतानां त्रयाणां एव शक्तिः स्यात् वैनतेयस्य तव वा मारुतस्य वा॥

"Oh Heroic one ! Best among the Vanaras ! I have a great doubt about your associates among Vanaras. This ocean which cannot be crossed, how will those Vanara armies cross the same. Among all living beings , only three namely Vainateya , the Marut , and you are capable of crossing this ocean".

तदस्मिन् कार्य निर्योगे वीरैवं दुरतिक्रमे।
किं पश्यसि समाधानं ब्रूहि कार्यविदां वर॥10||
काममस्य त्वमेवैकः कार्यस्य परिसाधने।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः॥11||

स॥ वीर ! कार्यविदां वर ! तत् एवं दुरतिक्रमे कार्यनिर्योगे किं समाधानं पश्यसि ब्रूहि। परवीरज अस्य कार्यस्य परिसाधने त्वं एक एव पर्याप्तः कामम् । ते फलोदयः यशस्यः ( भवेत्)

" Oh Hero ! foremost among those accomplishing tasks ! What solution you see for this difficult task ? Oh Slayer of enemy heroes ! Only you are capable of resolving this task surely. Succeeding in this all the fame will be yours ".

बलैः समग्रैर्यदि मां हत्वा रावणमाहवे।
विजयी स्वां पुरीं रामो नयेत् तस्याद्यशस्करम्॥12||
यथाsहं तस्य वीरस्य वनादुपथिना हृता।
रक्षसा तद्भया देव तथा नार्हति राघवः॥13||
बलैस्तु संकुलां कृत्वा लंकां परबलार्दनः।
मां नयेद्यदि काकुत्‍स्थः तत् तस्य सदृशं भवेत्॥14||

स॥ रामः रावणं समग्रैः बलैः आहवे हात्वा विजयी स्वां पुरीं (मां) नयेत् यदि तत् यशस्करं स्यात् ॥अहं रक्षसा वीरस्य उपाधिना यथा हृता तथा तत् भयादेव राघवः न अर्हति॥ परबलार्दनः काकुत्‍स्थः लंकां शरैः संकुलं कृत्वा माम् नयेत् यदि तत् तस्य सदृशं भवेत्॥

" If Rama , defeating Ravana along with all his army, being victorious, and then he takes me back to his city , that will be proper for him. I have been abducted by the Rakshasa using devious means. Rama shall not take me back with fear ( secretly). If Kakustha , the slayer of the enemy armies, stirring Lanka with his arrows and takes me back that will be appropriate for him ".

तद्यथा तस्य विक्रांतमनुरूपं महात्मनः।
भवत्याहवशूरस्य तथा त्वमुपपादय॥15||

स॥ तत् महात्मनः आहवशूरस्य तस्य अनुरूपं विक्रान्तं यथा भवेत् तथैव त्वं उपपादय॥

" You plan in accordance with his might in such a way that it allows the great soul who is an exalted hero to exhibit his valor".

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्।
निशम्याहं ततश्शेषं वाक्य मुत्तरमब्रुवन्॥16||
देवी हर्यृक्ष सैन्यानां ईश्वरः प्लवतां वरः।
सुग्रीवः सत्त्वसंपन्नः तवार्थे कृत निश्चयः॥17||

स॥ ततः अर्थोपहितं प्रश्रितं हेतुसंहितं वाक्यं निशम्य अहं शेषं उत्तरं अब्रुवन् ॥देवी हर्यक्षुसैन्यानां ईश्वरः प्लवतां वरः सत्त्व संपन्नः तव अर्थे कृतनिश्छयः॥

' Hearing those meaningful courteous words supported with reasons I said these words in reply. "Oh Divine lady , the Lord of the armies of Vanaras, the best among fliers, richly endowed with strength is resolved to save you".

तस्य विक्रमसंपन्नाः सत्त्ववंतो महाबलाः।
मनः संकल्पसंपाता निदेशे हरयः स्थिताः॥18||
येषां नोपरिनाधस्तान् नतिर्यक् सज्जते गतिः।
न च कर्मसु सीदंति महत्स्वमित तेजसः॥19||

स॥ विक्रमसंपन्नाः सत्त्ववन्तः महाबलाः मनः संकल्प संपाताः तस्य निदेशे स्थिताः॥येषां गतिः उपरि न सज्जते। अधस्तात् न। तिर्यक् न । अमित तेजसः महत् सु कर्मसु न सीदन्ति॥

" The mighty, powerful, tough warriors committed in their mind are under his command. They can go up without any obstruction. They can go down too. They can go in any other direction. These brilliant ones can undertake any task without difficulty".

असकृत्तैर्महाभागैः वानरैर्बलदर्पितैः।
प्रदक्षिणीकृता भूमि र्वायुमार्गानुसारिभिः॥20||
मद्विशिष्ठाश्च तुल्याश्च संति तत्र वनौकसः।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीव सन्निधौ॥21||

स॥ महाभागैः बलदर्पितैः वायुमार्गानुसारिभिः तैः वानरैः भूमिः प्रदक्षिणी कृता॥सुग्रीव सन्निधौ तत्र मत् विशिष्ठाश्च तुल्याश्च संति । मत्तः प्रत्यवरः कश्चित् नास्ति॥

"These great Vanaras, who are proud of their might, can go around the earth travelling in the aerial path. In the court of Sugriva there are those who are better than me or equal to me. There is none who is less powerful than me".

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः।
नहि प्रकृष्टाः प्रेष्यंते प्रेष्यंते हीतरे जनाः॥22||
तदलं परिपातेन देवि मन्युर्व्यपैतु ते।
एकोत्पातेन वै लंका मेष्यंति हरियूथपाः॥23||

स॥ अहं तावत् इह अनुप्राप्तः। महबलाः ते किं पुनः । प्रकृष्टाः न प्रेत्यन्ते हि । इतरे जनाः प्रेत्यन्ते हि॥ देवी तत् परितापेन अलं । ते शोकः व्यपैतु। ते हरियूथपाः एकोत्पातेन लंकां एष्यंति॥

" If I have come here, what to say of the highly powerful ones. Superior one are indeed not sent. Only the other people are sent. Oh Divine lady ! Enough of such lamentation. Let your sorrow end. The Vanara army will reach Lanka in one jump".

ममपृष्ठगतौ तौ च चंद्रसूर्याविवोदितौ।
त्वत्सकाशं महाभागे नृशिंहवागमिष्यतः॥24||
अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवं।
लक्ष्मणं च धनुष्पाणिं लंकाद्वारमुपस्थितम्॥25||

स॥ महाभागे नृसिंहौ तऊ च मम पृष्ठगतौ उदितौ चन्द्रसूर्याविव त्वत् सकाशं आगमिष्यतः॥लंकाद्वारं उपस्थितं अरिघ्नं सिंहसंकाशं तं राघवं धनुष्पाणिं लक्ष्मणं च क्षिप्रं द्रक्ष्यसि॥

" Oh Noble one ! Both of them , the lions among men, sitting on my back shining like Sun and moon will reach here soon. You will soon see the lion like slayers of enemies , the Raghava and Lakshmana with bow in his hand at the gates of Lanka".

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्।
वानरान् वारणेंद्राभान् क्षिप्रं द्रक्ष्यसि संगतान्॥26||
शैलांबुदनिकाशानां लंकामलयसानुषु।
नर्दतां कपिमुख्यानां अचिराच्छ्रोष्यसि स्वनम्॥27||
निवृत्त वनवासं च त्वया सार्थ मरिंदमं।
अभिषिक्त मयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्॥28||

स॥ नखदंष्ट्रायुधान् सिंहशार्दूलविक्रमान् वानरान् वारणेंद्राभान् संगतान् क्षिप्रं द्रक्ष्यसि॥शैलाम्बुदनिकाशानाम् लंकामलयमानुषु नर्दतां कपिमुख्यानां स्वनं अचिरात् श्रोष्यसि॥निवृत्तवनवासं अरिन्दमं अयोध्यायाम् त्वया सार्थं अभिषिक्तं राघवं क्षिप्रं द्रक्ष्यसि॥

"You will soon see Vanaras who use their nails and teeth as the weapons, who have the strength of Lions and tigers. You will soon see leaders of the Vanara army hovering over Lanka's mountains like the rain clouds on the Malaya mountain. You will soon see the slayer of enemies, Rama crowned in Ayodhya along with you after completing the exile in the forest" .

ततो मयावाग्बिरदीनभाषिणा
शिवाभिरिष्टाभिरभिप्रसादिता।
जगाम शांतिं मममैथिलात्मजा
तवापि शोकेन तदाsभिपीडिता॥29||

स॥ ततः तव शोकेनापि तदा अभिपीडिता मैथिलात्मजा अदीनभाषिणा मया शिवाभिः इष्टभिः मम वाग्भिः अभिप्रसादिता शांतिं जगाम॥

’Then the princess of Mithila, Sita who was in grief of separation from you , pleased with soothing and auspicious words spoken by me, became peacefu”.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे अष्टषष्टितमस्सर्गः॥
श्रीसुंदरकांडः समाप्तः॥
हरि ओम् तत सत्॥
सर्वं श्री रामचंद्रार्पणमस्तु॥

Thus ends the sixty eight Sarga of Sundarakanda. That is also the end of Sundarakanda in Ramayana, the first ever Sanskrit poem composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat ||