||Sundarakanda ||

|| Sarga 6||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ षष्टस्सर्गः

स निकामं विमानेषु विषण्णः कामरूपधृत्।
विचचार पुनर्लंकां लाघवेन समन्वितः॥1||

स॥ ( सीतां अदृष्ट्वा) विषण्णः सः कामरूपधृत् हनुमान् पुनः समन्वितः विमानेषु लाघवेन निकाममं लंकां विचचार ॥

Hanuman endowed with strength who can take any form , sad because he was unable to see Sita, again started moving speedily among the tall mansions of Lanka,

अससादाथ लक्ष्मीवान् राक्षसेंद्र निवेशनम्।
प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम्॥2||

स॥ अथ लक्ष्मीवान् ( अतिवीर्यसंपन्नः) भास्वरेण अर्कवर्णेन प्राकारेण संवृतं राक्षसेन्द्र निवेशनम् अससाद ॥

Then that Vanara reached the residence of the king of the Rakshasas which is enclosed by a boundary wall which is red in color and dazzling like the mid-day Sun.

रक्षितं राक्षसैर्घोरैः सिंहैरिवमहद्वनम्।
समीक्षमाणो भवनं चकाशे कपिकुंजरः॥3||

स॥सिंहैः रक्षितं महावनमिव भीमैः राक्षसैः रक्षितम् भवनम् समीक्षमाणो कपिकुंजरः चकाशे॥

The best among Vanaras looked bright while searching that palace which was protected by fierce Rakshasas like a forest is protected by lions.

रूप्यकोपहितैश्चित्रैः तोरणैर्हेमभूषितैः।
विचित्राभिश्च कक्षाभिः द्वारैश्चरुचिरैर्वृतम् ॥4||

स॥ विचित्राभिः कक्ष्याभिः रुचिरैः द्वारैश्च रूप्यकोपहितैः चित्रैः हेमभूषितैः तोरणैः वृतं ( भवनं ददर्श)॥

(Hanuman saw) Colorful apartments with beautiful entrances , (They were) surrounded by arches inlaid with silver, decorated with gold.

गजास्थितैर्महामात्रैः शूरैश्चविगतश्रमैः।
उपस्थितं असंहार्यैः हरयै स्यंदनयायिभिः॥5||

स॥ (हनुमान्) गजस्थितैः वीरैश्च महामात्रैः विगतश्रमैः असंहार्यैः हयैः स्यंदनयायिभिः उपस्थितं ( ददर्श)॥

Hanuman saw warriors mounted on elephants, unwearied riders of chariots with irresistible horses who looked ready (for any action).

सिंहव्याघ्रतनुत्राणैः दांतकांचनराजतैः।
घोषवद्भिः विचित्रैश्च सदा विचरितं रथैः॥6||

स॥ सिंह व्याघ्र तनुत्राणैः दान्तकांचन राजतैः विचित्रैः घोषवद्भिः रथैः सदा विचरितं ( तं भवनं ददर्श) ॥

Covered with skins of lions and tigers, encrusted with images of ivory gold and silver and making sounds the chariots were always moving about.

बहुरत्न समाकीर्णं परार्ध्यासनभाजनम्।
महारथसमावासम् महारथमहास्वनम्॥7||

स॥ परार्थ्यासन भाजनम् बहुरत्न समाकीर्णं महारथ समावासम् महारथ महास्वनम् (भवनम् ददर्श)॥

With excellent seats and vessels with many precious gems, with many places for big chariots, the place was filled with deep sounds of great charioteers.

दृश्यैश्च परमोदारैः तैः तैरश्च मृगपक्षिभिः।
विविधैर्बहुसाहस्रैः परिपूर्णं समंततः॥8||

स॥ परमोदारैः दृश्यैः विविधैः बहु साहस्रैः तैरश्च मृगपक्षिभिः तैः परिपूर्णं समन्ततः ( भवनम् ददर्श) ॥

(The palace was) Filled with thousands of many kinds of beautiful pleasing beasts and birds of different kinds.

विनीतैरंतपालैश्च रक्षोभिश्च सुरक्षितम्।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समंततः॥9||

स॥ विनीतैः अन्तपालैः च रक्षोभिः सुरक्षितं मुख्याभिः वरस्त्रीभिः परिपूर्णं समंततः (भवनम् ददर्श)॥

Protected by disciplined Rakshasa palace guards , the palace was full of important noble women.

मुदित प्रमदारत्नं राक्षसेंद्र निवेशनम्।
वराभरणसंहाद्रैः समुद्रस्स्वननिस्स्वनम्॥10||

स॥ राक्षसेन्द्र निवेशनं मुदित प्रमदारत्नं वराभरण संहाद्रैः समुद्रस्स्वनन्निस्वनम् ॥

The palace of the Rakshasa king with jingling sounds of ornaments and accessories of joyful women reverberated with sounds like the sounds of the sea.

तद्राजगुणसंपन्नं मुख्यैश्चागरुचंदनैः।
महाजनैः समाकीर्णं सिंहैरिव महद्वनम्॥11||

स॥ तत् (भवनं) राजगुणसंपन्नं मुख्यैः महाजनैः समाकीर्णं भवनं सिंहैः समाकीर्णं महत् वनमिव (अस्ति)॥(तत् भवनं) अगरुचन्दनैः (समाकीर्णं ) च॥

That palace full of eminent Rakshasas and great people endowed with royal traits looked like a great forest infested with lions. It carried various fragrances.

भेरीमृदंगाभिरुतं शंखघोषनिनादितम्।
नित्यार्चितं पर्वहुतं पूजितं राक्षसैस्सदा॥12||

स॥ (तत् भवनं) भेरीमृदंगाभिरुतं शंखघोषनिनादितं (अस्ति) नित्यार्चितं पर्वहुतं राक्षसैः सदा पूजितं (अपि च)॥

That palace was filled with sounds of trumpets, echoed with sounds of conches and percussion instruments. The Rakshasas always performed daily worships and sacrifices on special days.

समुद्रमिव गंभीरं समुद्रस्वननिस्स्वनम्।
महात्मनोमहद्वेश्म महारत्न परिछ्छदम्॥ 13||
महारत्न समाकीर्णं ददर्श स महाकपिः।

स॥ समुद्रमिव गंभीरं निस्स्वनम् समुद्रमिव महारत्नपरिच्छदम् महारत्न समाकीर्णं महात्मनस्य महत् वेश्म तत् महकपिः ददर्श॥

With deep sounds resembling the sounds of a sea , Hanuman saw the great residence of the great man with gem studded ornaments full of precious gems.

विराजमानं वपुषागजाश्वरथसंकुलम्॥14||
लंकाभरणमित्येव सोsमन्यत महाकपिः।
चचार हनुमांस्तत्र रावणस्य समीपतः॥15||

स॥ एवं वपुषा विराजमानं गजाश्वरथ संकुलं ( भवनं) लंकाभरणं इति सः महाकपिः अमन्यत॥ तत्र हनुमतः रावणस्य( भवनं) समीपतः चचार॥

Hanuman thought that palace bright in appearance being full of elephants horses and chariots is the very jewel of Lanka. Then Hanuman moved closer to Ravana's palace,

गृहाद्गृहं राक्षसानां उद्यानानि च वानरः।
वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः॥16||

स॥गृहात् गृहं राक्षसानां च उद्यानानि प्राशादांश्च वीक्षमाणः असंत्रस्तः हनुमान् चचार॥

Hanuman moved about unobtrusively from house to house observing the gardens and the mansions .

अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्।
ततोsन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्॥17||

स॥ महावीर्यः महावेगः प्रहस्तस्य निवेशनम् अवप्लुत्य महापार्श्वस्य (भवनं) ततः अन्यत् ( भवनं) पुप्लुवे॥

Courageous and quick Hanuman sprang from Prahasta's house to Mahaparsva's house and then jumped to other houses.

अथ मेघ प्रतीकाशं कुंभकर्णनिवेशनम्।
विभीषणस्य च तथापुप्लुवे महाकपिः॥18||

स॥ अथ सः महाकपिः मेघप्रतीकाशं कुंभकर्णस्य निवेशनं तदा विभीषणस्य( भवनं) पुप्लुवे॥

Then the great Vanara moved from Kumbhakarna's house resembling a great cloud to Vibhishana's house.

महोदरस्य च गृहं विरूपाक्षस्य चैव हि।
विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तधैवच ॥19||
वज्रदंष्ट्रस्य ह तथा पुप्लुवे महाकपिः।

स॥ सः महाकपिः महोदरस्य गृहं च विरूपाक्षस्य च एव हि विद्युज्जिह्वस्य तथैव च विद्युमालेः तथैव वज्रदंष्ट्रस्य भवनं पुप्लुवे॥

The great Vanara jumped from Mahodara's to Virupaksha, and jumped like that from Vidyujjihva to Vidyumala and then to Vajradamshtra's mansion.

शुकस्य च महातेजाः सारणस्य च धीमतः॥20||
तथा चेंद्रजितोवेश्म जगाम हरियूधपः।

स॥ महातेजाः हरियूथपः शुकस्य धीमतः सारणस्य तथा इंद्रजितः वेश्म जगाम॥

The powerful Vanara then went by the house of Suka , the intelligent Sarana and similarly Indrajit's mansion too.

जंबुमाले स्सुमालेश्च जगाम हरिसत्तमः॥21||
रश्मि केतोश्च भवनं सूर्य शत्रोस्तथैवच ।
वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥22||

स॥ हरिसत्तमः जम्बुमालेः सुमालेः च जगाम॥ सः महाकपिः रस्मिकेतोः तथैव च सूर्यशत्रोः च तथा वज्रकायस्य भवनं पुप्लुवे॥

The best of Vanara's then jumped from Jambumali's to Sumali's house. Similarly that great vanara jumped from Rasmiketu's to SuryaSatru's, and then to Vajrakaya's mansion

धूम्राक्षस्य च संपातेः भवनं मारुतात्मजः।
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च॥23||
शुकनासस्य वक्रस्य शठस्य विकटस्य च।
ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः॥24||
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः।
विद्युज्जिह्वेंद्रजिह्वानां तथा हस्तिमुखस्य च॥25||

स॥ धूम्राक्षस्य तथा संपातेः भवनं तथैव विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ( भवनं पुप्लुवे) ॥ तथा रक्षसः शुकनासस्य वक्रस्य विकटस्य ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च (भवनं पुप्लुवे)॥ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः (भवनं च) विदुज्जिह्वस्य इंद्रजिह्वस्य तथा हस्तिमुखस्य (भनं पुप्लुवे)॥

Then the great Vanara jumped over the houses of Dhumraksha, Sampati, Vidyudrupa, Bhima, Ghana, and Vighana. Similarly he jumped over the houses of the Rakshasas Sukanasa, Vakra, Vikata, Brahmakarna, Damshtra, and Romasa. Then he jumped over the houses of Yuddhonmatta, Matta, Dhvajagriva, Nadina, Vidyujjihva, Indrajihva similarly Hastimukha.

कराळस्य पिशाचस्य शोणिताक्षस्य चैव हि।
क्रममाणं क्रमेणैव हनुमाम्मारुतात्मजः॥26||

स॥कराळस्य पिशाचस्य शोणिताक्षस्य च (भवनं अपि) क्रममाणं क्रमेनैव (पुप्लुवे)॥

Similarly Hanuman jumped over the houses of Karala, Pisacha, and Sonitaksha in an orderly manner as he advanced.

तेषु तेषु महार्हेषु भवनेषु महायशाः।
तेषां वृद्धिमतां वृद्धिं ददर्श स महाकपिः॥27||

स॥ महायशाः तेषु तेषु भवनेषु ऋद्धिमतां तेषां ऋद्धिं सः महाकपिः ददर्श॥

The great Vanara saw the wealth of the wealthy in their mansions.

सर्वेषां समतिक्रम्य भवनानि समंततः ।
अससादाथ लक्ष्मीवान् राक्षसेंद्रनिवेशनम्॥ 28||

स॥ सः लक्ष्मीवान् सर्वेषां भवनानि समन्ततः राक्षसेंद्र निवेशनं आससाद॥

That Vanara rich in capabilities then passing all the mansions reached the residence of the King of Rakshasas.

रावणसोपशायिन्यो ददर्श हरिसत्तमः।
विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणः॥29||
शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः।

स॥। हरिशार्दूलः हरिसत्तमः विचरन् रावणस्य उपशायिन्यः विकृतेक्षणाः शूलमुद्गरहस्ताश्च शक्तितोमर धारिणः राक्षसीः ददर्श ॥

The best of Vanara wandering about Ravana's palace saw Rakshasas with hideous eyes carrying tridents and hammers, as well as powerful javelins and iron cudgels as arms.

ददर्श विविधान् गुल्मान् तस्य रक्षःपतेर्गृहे॥30||
राक्षासांश्च महाकायान् नाना प्रहरणोद्यतान्।

स॥ तस्य रक्षः पते गृहे विविधान् गुल्मान् महाकायान् नानाप्रहरोद्यतान् राक्षसांश्च ददर्श॥

At that home of the king of Rakshasas, Hanuman saw different regiments of army troops ready with different kinds of weapons.

रक्तान् श्वेतान् सितांश्छैव हरींश्चापि महाजवान्॥31||
कुलीनान् रूपसंपन्नान् गजान्परगजारुजान्।
निष्टितान् गजशिक्षयां इरावतसमान्युधि॥32||
निहंतॄन्परशैन्यानां गृहे तस्मिन् ददर्श सः।
क्षरतश्च यथामेघान् स्रवतश्च यथा गिरीन्॥33||
मेघस्तनित निर्घोषान् दुर्धर्षान् समरे परैः।

स॥ सः तस्मिन् गृहे रक्ताम् श्वेतान् सितांश्चैव महाजवान् हरीश्चापि कुलीनान् रूपसंपन्नान् परगजारुजान् गजान् निष्टितान् इरावतसमान् युधि प्ररशैन्यानां निहन्तॄन् क्षरतः यथा मेघान् स्रवतः च यथा गिरीन् समरे परैः दुर्धर्षान् गजान् ददर्श ॥

He saw well bred horses of red, white and cream colors which can travel fast. He saw good looking elephants not inferior to enemy's which are well trained and equal to Iravat in battle, which were unassailable in the battle and which were shedding rut resembling thundering clouds pouring out rain on the mountains.

सहस्रं वाहिनीस्तत्र जांबूनदपरिष्कृताः॥34||
हेमजालपरिच्चन्नाः तरुणादित्यसन्निभाः।
ददर्श राक्षसेंद्रस्य रावणस्य निवेशने॥35||

स॥ तत्र रावणस्य निवेशने जाम्बूनदपरिष्कृताः हेमजालपरिछ्चन्नाः तरुणादित्यसन्निभाः सहस्रं वाहिनीं ददर्श॥

In Ravana's house he saw thousands of troops bedecked with gold, fully protected with armor of gold shining like the rising Sun.

शिबिका विविधाकाराः सकपिर्मारुतात्मजः।
लतागृहाणि चित्राणी चित्रशालागृहाणिच॥36||
क्रीडागृहाणि चान्यानि दारुपर्वतकानपि।
कामस्य गृहकं रम्यं दिवागृहकमेवच ॥37||
ददर्श राक्षसेंद्रस्य रावणस्य निवेशने।

स॥ सः कपिः मारुतात्मजः राक्षसेन्द्रस्य रावणस्य निवेशने विविधाकाराः शिबिकाः चित्राणि क्रीडागृहाणि दारुपर्वतकानपि कामस्य गृहकम् रम्यं दिवागृहकमेव च ददर्श॥

The great Vanara who is the son of Vayu, the wind god, saw in the palace of the king of Rakshasas different types of palanquins, sporting chambers, hillocks made of wood, charming houses for love making, chambers for the day time activities also.

समंदरग्रिप्रख्यं मयूरस्थानसंकुलम्॥38||
ध्वजयष्टिभि राकीर्णं ददर्श₹ भवनोत्तमम्।
अनेकरत्नसंकीर्णं निधिजालं समंततः॥39||
धीरनिष्टितकर्मांतं गृहं भूतपतेरिव।

स॥ सः मंदरगिरिप्रख्यं मयूरस्थान संकुलम् ध्वजयष्टिभिः आकीर्णन् धीरनिष्ठित कर्मान्तम् भूतपतेः गृहमिव भवनोत्तमम् समन्ततः अनेकरत्न संकीर्णम् निधिजालम् ददर्श ॥

Comparable to mount Mandara, it was full of Peacocks. It was full of flag posts. It was built by skilled craftsman with great care, resembling Kailasa the house of the Lord of all creatures. He saw a magnificent mansion which was full of gems and treasure troves.

अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च॥40||
विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः।

स॥ तत् वेश्म रत्नानाम् अर्चिर्भिश्चापि रावणस्य तेजसा च अथ रश्मिभिः रश्मिमानिव विरराज ॥

That palace though full of gems with wonderful hues, shone with the brilliance of Ravana like the Sun god with his rays of sunshine.

जांबूनदमयान्येन शयनान् आसनानिच॥41||
भाजनानि च मुख्यानि ददर्श हरियूथपः।

स॥ हरियूथपः जाम्बूनदमयान्येव शयनानि आसनानि च मुख्यानि भाजनानि ददर्श॥

The great Vanara saw there beds, seats and main vessels made of gold.

मध्वासवकृतक्लेदं मणीभाजनसंकुलम्॥42||
मनोरम मसंबाधं कुबेरभवनं यथा।
नूपुराणां च घोषेण कांचीनां निनदेन च॥43||
मृदंगतलघोषैश्च घोषवद्भिर्विनादितम्।
प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम्॥
सुपूढ्यकक्ष्यं हनुमान् प्रविवेश महागृहम्॥44||

स॥ ध्वासकृतक्लेदं मणिभाजनसंकुलं मनोरमम् असम्भाधम् कुबेर भवनं यथा नूपुराणां कांचीनाम् निनदेन घोषवद्भिः मृदंगतलघोषैश्च विनादितम् प्रासादसंघातयुतम् महागृहं हनुमान् प्राविवेश॥

Hanuman saw the spacious and very delightful palace which is like that of Kubera, which is drenched with liquor and other drinks, with gem encrusted vessels scattered all over. Hanuman then entered the house which was resonating with sounds of golden anklets of women and the drums. which had rows of mansions with lofty palaces and well laid apartments full of exquisite women.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे षष्ठस्सर्गः॥

Thus ends the sixth Sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki.
||

|| Om tat sat ||