||Sundarakanda ||

|| Sarga 7||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ सप्तमस्सर्गः

स वेश्मजालं बलवान् ददर्श
व्यासक्त वैढूर्यसुवर्णजालम्।
यथामहत्प्रावृषि मेघजालम्
विदुत्पिनद्धं सविहंगजालम्॥1||

स॥बलवान् सः हनुमान् यथा प्रावृषि विद्युत्पिनद्धम् महत् मेघजालं तथा व्यासक्त वैढूर्यसुवर्णजालं सविहंगजालं वेश्मजालं ददर्श ॥

The mighty Hanuman saw the group of mansions, having golden lattices encrusted with Vaidurya and with flocks of birds, looking like a group of clouds with streaks of lightning in the rainy season.

निवेशनानां विविधाश्चशालाः
प्रधानशंखायुधचापशालाः।
मनोहराश्चापिपुनर्विशालाः
ददर्श वेश्माद्रिषु चंद्रशालाः॥2||

स॥(सः हनुमान्) प्रधानशंखायुथचापशालाः विविधाः शालाः निवेशनानाम् ददर्श।पुनः वेश्माद्रिषु मनोहराः विशालाः चन्द्रशालाः च ददर्श॥

There Hanuman saw several places for storing valuable conches, weapons and bows among those mansions, again he saw delightful and spacious terraces open to the skies on top of those houses.

गृहाणि नानावसुराजितानि
देवासुरैश्चापि सुपूजितानि।
सर्वैश्च दोषैः परिवर्जितानि
कपिर्ददर्श स्वबलार्जितानि॥3||

स॥ (सः महा) कपिः (तत्) गृहाणि सर्वैश्च देवाः सुरैः चापि सुपूजितानि स्वबलार्जितानि दोषैः परिवर्जितानि नानावसुराजितानि ददर्श॥

The houses were having different kinds of treasures cherished even by gods. The treasures were without blemishes and were won by Ravana with his own might.

तानि प्रयत्नाभिसमाहितानि ॥
मयेव साक्षादिव निर्मितानि।
महीतले सर्व गुणोत्तराणी
ददर्श लंकाधिपतेर्गृहाणि॥4||

स॥ प्रयत्नाभि समाहितानि सर्वगुणोत्तराणि लंकाधिपतेः गृहाणि साक्षात् मयेव निर्मितानि भवनानि इव हनुमान् ददर्श॥

Built with great care and effort, the excellent mansions of the king of Lanka looked like the mansions built by Maya ( the divine architect) himself.

ततो ददर्शोच्छ्रितमेघरूपम्
मनोहरं कांचनचारुरूपम्।
रक्षोsधिप स्यात्मबलानुरूपम्
गृहोत्तमं ह्यप्रतिरूपरूपम्॥5||

स॥ (तत्) रक्षोधिपस्य उत्तमम् गृहम् ददर्श । (तत् गृहम्) मनोहरं कांचनचारुरूपं अप्रतिरूपरूपं रक्षोधिपस्य आत्मबलानुरूपं अस्ति। तत् गृहं उच्छ्रितमेघरूपं इव अस्ति॥

Hanuman saw the excellent palace of the king of Rakshasas. It was beautiful with the the splendor of gold . It was matchless and worthy of his own might. That palace was appearing like a towering cloud.

महीतले स्वर्गमिव प्रकीर्णम्
श्रियाज्वलंतं बहुरत्न कीर्णम्।
नानातरूणां कुसुमावकीर्णम्
गिरेरिवाग्रं रजसावकीर्णम्॥6||

स॥ श्रिया ज्वलंतं (तत् गृहम्) महीतले प्रकीर्णम् स्वर्गमिव (अस्ति)। नानातरूणां कुसुमावकीर्णं रजसा गिरेः अग्रं इव (तत् गृहम् अस्ति)॥

Glittering with riches that mansion was like heaven scattered on the earth. That mansion looked like a mountain top covered with flowers of all kinds of trees.

नारीप्रवेकैरिव दीप्यमानम्
तटिद्भि रंभोदव दर्च्यमानम्।
हंसप्रवेकैरिव वाह्यमानम्
श्रियायुतं के सुकृतां विमानम्॥7||

स॥ तत् सुकृतां विमानम् अर्चमानम् नारीप्रवेकैः श्रिया युतं (अस्ति)। अम्भोदवत् दीप्यमानं तटिद्भिः इव अस्ति। खे हंसप्रवैकैः वाह्यमानम् इव अस्ति॥

That royal aerial chariot auspicious and worthy of worship was filled with resplendent women. It was like the rain clouds lit with lightning. It was as if drawn by swans in the sky.

यथा नगाग्रं बहुधातुचित्रम्
यथा नभश्च ग्रहचंद्रचित्रम्।
ददर्शयुक्तीकृत मेघचित्रम्
विमानरत्नं बहुरत्न चित्रम्॥8||

स॥ तत् विमानरत्नं बहुरत्न चित्रं अस्ति। (तत् विमानम्) यथा बहुधातुचित्रम् नगाग्रं इव यथा युक्तीकृत मेघचित्रं इव यथा नभश्च ग्रहचन्द्र चित्रं इव अस्ति ॥

That best of aerial chariots was colorful on account of gems encrusted. It was like a mountain peak which was colorful because of many the minerals embedded in the mountain. It was like a mass of colorful clouds. It was like the sky which was looking colorful with planets and Moon.
महीकृता पर्वतराजिपूर्णा
शैलाः कृता वृक्षवितानपूर्णा।
वृक्षाः कृता पुष्पवितानपूर्णाः
पुष्पं कृतं केसर पत्र पूर्णम्॥9||

स॥ यत्र पर्वत राजि पूर्णा मही (चित्री) कृता । यत्र वृक्ष वितानपूर्णा शैलाः (चित्री) कृता । यत्र वृक्षाः पुष्पवितानपूर्णा (इव चित्री ) कृता । यत्र पुष्पम् केसरपत्रपूर्णम् चित्रीकृता । (तत् विमानं हनुमान् ददर्श) ॥

The earth was drawn filled with mountain ranges. The mountains were drawn with canopy of trees, the trees were drawn filled with lovely flowers. The flowers were drawn filled with petals and filaments.

कृतानि वेश्मानिच पांडुराणि
तथा सुपुष्पाण्यपि पुष्कराणि।
पुनश्च पद्मानि स केसराणि
धन्यानि चित्राणि तथा वनानि॥10||

स॥ यस्मिन् पांडुराणि वेश्मानि च (चित्री) कृतानि । तथैव यस्मिन् पुष्पाणि सह पुष्कराणि (चित्रीकृतानि)। पुनः यस्मिन् केसराणि सः पद्मानि (चित्री कृतानि) । यस्मिन् धन्यानि वनानि चित्राणि चित्रीकृतानि (तत् विमानम् ददर्श)॥

The mansions were drawn in white color. The ponds were drawn with flowers. The flowers were drawn again with petals. Paintings of complete gardens were drawn.

पुष्पाह्वयं नाम विराजमानं
रत्नप्रभाभिश्च विवर्थ मानम्।
वेश्मोत्तमाना मपि चोच्चमानम्
महाकपिस्तत्र महाविमानम्॥11||

स॥ महाकपिः तत्र पुष्पाह्वयं नाम विराजमानं महा विमानं (ददर्श)। तत् विमानं रत्न प्रभाभिः च विवर्धमानं । तत् विमानं वेश्मोत्तमानां अपि उच्च्यमानं अस्ति।

The great Vanara saw a aerial car going by the name of Pushpaka. That aerial car was glowing with the glitter of gems. That aerial was taller than the magnificent mansions.

कृताश्च वैढूर्यमया विहंगाः
रूप्यप्रवाळैश्च तथा विहंगाः।
चित्राश्च नानावसुभि र्भुजंगाः
जात्यानुरूपास्तुरगा श्शुभांगाः॥12||

स॥ वैढूर्यमानाः विहंगाः कृताः । तथैव रूप्यप्रवाळैश्च कृताः विहांगाः । चित्राः भुजंगाः नानावसुभिः कृताः । तुरंगाः जात्यानुरूपाः शुभांगाः अपि कृताः॥

The birds were made of Vaiduryas. Similarly the birds were made of silver and corals. Colorful serpents were made with gems. Well bred horses with auspicious limbs were drawn.

प्रवाळजांबूनदपुष्पपक्षाः
सलील मावर्जितजिह्मपक्षाः।
कामस्य साक्षादिव भांति पक्षाः
कृताविहंगा स्सुमुखास्सुपक्षाः॥13||

स॥ विहंगाः सुपक्षाः प्रवालजाम्बूनदपुष्पपक्षाः स लीलं आवर्जितजिह्म पक्षाः कृताः। सा विहंगाः साक्षात् कामस्य पक्षाः इव बान्ति॥

Birds having beautiful wings, with wings engraved in corals and gold, with artificial wings sportively bent were drawn. The birds (wings) were as if they were wings of the cupid, the god of love.

नियुज्यमानास्तु गजास्सुहस्ताः
स केसराश्चोत्पलपत्त्रहस्ताः।
बभूव देवी च कृता सुहस्ता
लक्ष्मीस्तथा पद्मिनि पद्महस्ता॥14||

स॥ लक्ष्मीः पद्मिनी पद्महस्ता सुहस्ता च सकेसराश्च देवी च कृता बभूव। तथा उत्पलपत्रहस्ताः नियुज्यमानाः गजाः अस्तु ॥

Goddess Lakshmi in lotus pond having beautiful hands holding lotus in her hands along with filaments was seen. Elephants carrying blue lotuses with their trunks as offerings to the Goddess were seen too.

इतीव तद्गृहमभिगम्य शोभनम्
सविश्मयो नगमिव चारु शोभनम्।
पुनश्च तत्परमसुगंधि सुंदरम्
हिमात्यये नगमिव चारुकंदरम्॥15||

स॥ हनुमान् इतीव शोभनम् चारुशोभनम् नगमिव तत् गृहं अभिगम्य सविस्मयः भवति॥ (ततः) पुनश्च तत् (गृहं) हिमात्यये नगमिव परमसुगंधि सुंदरम् चारुकंदरं ददर्श॥

Thus Hanuman reached the auspicious and beautiful palace appearing like a mountain and was wonder struck. Again he saw the palace as a mountain in spring time with beautiful caves filled with wonderful fragrance.

ततः स तां कपि रभिपत्य पूजितां
चरन् पुरीं दशमुखबाहुपालिताम् ।
अदृश्यतां जनकसुतां सुपूजिताम्
सुदुःखितः पतिगुणवेगवर्जिताम्॥16||

स॥ ततः स कपिः दशमुखबाहुपालितां पूजितां तां पुरीं अभिपत्य चरन् पतिगुणवेगवर्जितां सुपूजितां तां जनकसुतां अदृश्यतां सुदुःखितः बभूव॥

Then that Hanuman having reached and going about that city ruled by the ten headed king in search of Sita was deeply grieved not being able to see the venerable daughter of Janaka.

ततस्तदा बहुविधभावितात्मनः
कृतात्मनो जनकसुतां सुवर्त्मनः।
अपश्यतोsभव दतिदुःखितं मनः
सुचक्षुषः प्रविचरतो महात्मनः॥17||

स॥ ततः जनकसुतां अपश्यतः बहुविधभावितात्मनः कृतात्मनः सुचक्षुषः सुवर्त्मनः महात्मन: मनः अतिदुःखितं अभवत् ॥

Then being unable to see Sita with many thoughts on his mind the accomplished Hanuman who always follows right path became very agitated.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे सप्तमस्सर्गः॥

Thus ends the seventh sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki.||

|| ओम् तत् सत्||

 

 

 

 

 

 

 

 

|| Om tat sat ||