||Sundarakanda ||
|| Sarga 8||( Only Slokas in Devanagari)
हरिः ओम्
Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English
सुंदरकांड.
अथ अष्टमस्सर्गः
स तस्य मध्ये भवनस्य संस्थितम् महद्विमानं मणिवज्रचित्रितम्।
प्रतप्त जंबूनदजालकृत्रिमम् ददर्श वीरः पवनात्मजः कपिः॥1||
तदप्रमेयाप्रतिकारकृत्रिमम् कृतं स्वयं साध्विति विश्वकर्मणा।
दिवं गतं वायुपथप्रतिष्टितम् व्यराजताssदित्य पथस्य लक्ष्मवत्॥ 2||
नतत्र किंचि न्नकृतं प्रयत्नतो न तत्रकिंचिन्न महार्हरत्नवत्।
न ते विशेषा नियता स्सुरेष्वपि न तत्र किंचिन्न महाविशेषवत्॥ 3||
तपस्समाधानपराक्रमार्जितम् मनस्समाधानविचारचारिणम्।
अनेकसंस्थान विशेषनिर्मितम् ततस्ततस्तुल्य विशेषदर्शनम्॥ 4||
मनस्समाधाय तु शीघ्रगामिनम् दुरावरं मारुततुल्यगामिनम्।
महात्मनां पुण्यकृतां महार्थिनाम् यशस्विनामग्र्यमुदा मिवालयम्॥5||
विशेषमालांब्य विशेषसंस्थितम् विचित्रकूटं बहुकूटमंडितम्।
मनोभिरामं शरदिंदु निर्मलम् विचित्रकूटं शिखरं गिरेर्यथा ॥6||
वहंति यं कुंडलशोभिताननाः महाशना व्योमचरा निशाचराः ।
विवृत विध्वस्तविशाललोचनाः महाजवा भूतगणा स्सहस्रशः॥7||
वसंतपुष्कोत्करचारुदर्शनम् वसंतमासादपि कांत दर्शनम्।
स पुष्पकं तत्र विमानमुत्तमम् ददर्श तद्वानरवीरसत्तमः॥8||
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे अष्टमस्सर्गः॥
|| Om tat sat ||