Srimad Valmiki Ramayanam
Balakanda Sarga 75
Parasurama- 2 !!
||om tat sat ||
बालकांड
पंचसप्ततिमस्सर्गः
राम दाशरथे राम वीर्यं ते श्रूयतेsद्भुतम्।
धनुषो भेदनं चैव निखिलेन मया श्रुतम् ॥
स॥ हेराम दाशरथे ते वीर्यं अद्भुतं इति श्रूयते । धनुषः भेदनं च निखिलेन इव मयाश्रुतम् ॥
"Oh Rama ! Son of Dasaratha! I heard about your great strength. I heard all about your breaking of the bow."
तदद्भुतमचिंत्यं च भेदनं धनुषस्त्वया ।
तत् श्रुत्वा अहमनुप्राप्तो धनुर्गृह्य अपरं शुभम्॥
तदिदं घोर संकाशं जामदग्न्यं महद्दनुः ।
पूरयस्व शरेणैव स्वबलं दर्शयस्व च॥
तदहम् ते बलं दृष्ट्वा धनुषो अस्य प्रपूरणे ।
द्वंद्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यस्य राघव ॥
स॥ तत् धनुषः त्वया भेदनं अद्भुतं अचिन्त्यं च । तत् श्रुत्वा अहं अपरं शुभं धनुः गृह्य अनुप्राप्तः ॥ तत् इदं घोर संकाशं जामदग्न्यं महद्दनुः ।(त्वं) शरेणैव पूरयस्व । स्वबलं दर्शयस्व च ।|हे राघव ! अस्य धनुषः तत् प्रपूरणे अहं वीर्यश्लाघ्यस्य ते बलं दृष्ट्वा द्वंद्वयुद्धं प्रदास्यामि ॥
"That you have broken the bow is unbelievable and astonishinhg. Having heard that I brought another superb and auspicious bow. This is Jamadani's fearsome and great bow. You can string an arrow and show me your strength .Oh Raghava ! If you, of accalaimed prowess, are able to string an arrow I will grant you a chance to duel with me".
तस्य तद्वचनं श्रुत्वा राजा दशरथ स्तदा ।
विषण्णवदनो दीनः प्रांजलिर्वाक्यमब्रवीत् ॥
क्षत्ररोषात् प्रशांतस्त्वं ब्राह्मणश्च महयशाः ।
बालानां ममपुत्राणां अभयं दातुमर्हसि ॥
स॥ राजा दशरथः तस्य तत् वचनं श्रुत्वा विषण्णवदनः प्रांजलिः वाक्यं अब्रवीत् ॥महायशाः ब्राह्मणश्च त्वं क्षत्ररोषात् प्रशांतः ममपुत्राणाम् बालानां अभयं दातुमर्हसि ॥
King Dasaratha hearing those words spoke with folded hands and a greief stricken face . " Oh Celebrated one! You are a Brahmana, man of great fame, with anger of Killing Kshatriyas susided, you are capable of giving protection to my sons who are mere boys".
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् ।
सहस्राक्षे प्रतिज्ञाय शस्त्रम् निक्षिप्तवानसि ॥
स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम् ।
दत्वा वनमुपागम्य महेंद्रकृत केतनः ॥
स॥ (त्वं) स्वाध्याय व्रत शालिनाम् भार्गवाणां कुले जातः । (त्वं) सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि
|स त्वं धर्मपरः भूत्वा काश्यपाय वसुंधरां दत्वा कृतकेतनः महेंद्रवनं उपागम्य (वसति च)॥
"You are born into the line of Bhargavఅs who are consistently devoted to discipline and studies. You have taken a vow with Indra to give up arms. You followed the right path and gave away all the kingdom to Kasyapa and moved to Mahendragiri .
मम सर्वविनाशाय संप्राप्तस्त्वं महामुने ।
न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ॥
ब्रुवत्येवं दाशरथे जामदग्न्यः प्रतापवान् ।
अनादृत्यैव तद्वाक्यं राममेभ्यभाषत ॥
स॥ हे महामुने त्वं मम सर्वम् विनाशाय संप्राप्तः । अस्मिन् रामे हते वयं सर्वे न जीवामहे ॥ इति एवं दाशरथे ब्रुवति प्रतापवान् जामदग्न्यः तद्वाक्यं अनादृत्यैव रामं एव अभ्यभाषत ॥
"Oh great sage ! It seems like you have come to destroy all I have. Without Rama none of us can stay alive". Even as he was saying thus, without paying attention to him that son of Jamadagni spoke to SriRama.
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते ।
दृढे बलवती मुख्ये सुकृते विश्वकर्मणे ॥
अतिसृष्टं सुरैरेकं त्र्यंबकाय युयुत्सवे ।
त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत् त्वया ॥
(इदं द्वितीयं दुर्दर्षं विष्णोर्दत्तं सुरोत्तमैः ॥
स॥ इमे द्वे दिव्ये धनुषी लोकाभि श्रेष्ठे दृढे मुख्ये बलवती विश्वकर्मणे सुकृते (इति) विश्रुते ।|हे नरश्रेष्ठ ! हे काकुत्स्त ! यत् त्वया भग्नं (तत्) एकं सुरैः ( धनुः) त्रिपुरघ्नं त्र्यंबकाय युयुत्सवे (दत्तं)। इदं द्वितियं दुर्दर्षं धनुः सुरोत्तमैः विष्णोः दत्तम् ।
"These two celestial bows are known to be the best of all, powerful, strong and renowned. The one broken by you is the one given to Parameswara by the Devas for the destruction of Tripura. The second one which is undefeatable is that of Vishnu also given by the Devas.
तदिदं वैष्णवं राम धनुः परमभास्वरम् ।
समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम् ॥
तदा तु देवतास्सर्वाः पृच्छंति स्म पितामहम् ।
शितिकंठस्य विष्णोश्च बलाबलनिरीक्षया ॥
स॥ हे राम तत् इदं वैष्णवं धनुः परमभास्वरम् । हे काकुत्स्थ रौद्रेण धनुषा इदं समानसारं॥तदा देवताः सर्वे पितामहं शितिकंठस्य विष्णोश्च बलाबलनिरीक्षया पृछ्छंति स्म ।
"Oh Rama this bow of Vishnu is most replendent one. Oh Kakutstha ! This is equal to the bow of Siva in all respects. Then the Devas wanted to know the power of Siva and Vishnu and questioned Brahma ".
अभिप्रायं तु विज्ञाय देवतानां पितामहः ।
विरोधं जनयामास तयो स्सत्यवतां वरः॥
विरोधेच महद्युद्धं अभवत् रोमहर्षणम् ।
शितिकंठस्य विष्णोश्च परस्परजिगीषुणोः ॥
स॥ देवतानाम् अभिप्रायं तु विज्ञाय पितामहः तयोः सत्यवतां वरः विरोधं जनयामास ।| परस्परजिगीषुणोः शितिकंठस्य विष्णोः च विरोधेच महत् युद्धं अभवत् ।|
"Knowing the mind of Devas Brahma created a rivalry between the two. With both wanting to remain victorious, there was a great battle between the two".
तदा तु जृंभितं शैवं धनुर्भीमपराक्रमम् ।
हूंकारेण महादेवः स्तंभितोsथत्रिलोचनः ॥
देवैस्तदा समागम्य सर्षिसंघस्सचारिणैः ।
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ॥
जृंभितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ।
अधिकं मेनिरे विष्णुं देवास्सर्षिगणास्तदा ॥
स॥ तदा तु हुंकारेन भीमपराक्रमम् शैवं धनुः जृंभितम् । महादेवः त्रिलोचनः स्तंभितः ॥तदा स ऋषि संघः स चारिणैः देवैः तत्र समागम्य सुरोत्तमौ प्रशमं याचितौ जग्मतुः ॥विष्णुपराक्रमैः जृंभितं तत् शैवं धनुः दृष्ट्वा देवाः स ऋषिगणाः विष्णुं अधिकं मेनिरे ॥
"Then with a big snort from Vishnu the most powerful Siva's bow became powerless. The three eyed one was stunned. Then the Devas along with the legion of sages got together and made peace. Seeing the powerless bow of Siva the Devas concluded that Vishnu is the powerful one".
धनूरुद्रस्तु संक्रुद्धो विदेहेषु महायशाः ।
देवरातस्य राजर्षेः ददौ हस्ते ससायकम् ॥
इदं च वैष्णवं राम धनुः परपुरंजयम् ।
ऋचीके भार्गवे प्रादात् विष्णुस्सन्न्यासमुत्तमम् ॥
त॥ रुद्रः तु संक्रुद्धौ धनुः विदेहेषु महायशाः राजर्षेः देवरातस्य हस्ते स सायकम् ददौ॥ हे राम ! इदं वैष्णवम् परपुरंजयम् विष्णुः धनुः उत्तमम् न्नासम् भार्गवे ऋचीके प्रादात् ॥
"Then the angered Siva gave away his bow to the king of Videha , a Rajarshi and a highly acclaimed one by name Devarata. O Rama! This bow which can destroy cities was gven as a trust to Ruchika belonging to Bhargava clan."
ऋचीकस्तु महातेजाः पुत्त्रस्याप्रतिकर्मणः ।
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ॥
न्यस्त शस्त्रे पितरि मे तपोबलसमन्विते ।
अर्जुनो विदधे मृत्युं प्राकृतां बुद्धि मास्थितः ॥
स॥ महातेजः ऋचीकः मम पितुः अप्रतिकर्मणः पुत्रस्य महात्मनः जमदग्नेः दिव्यं ( धनुः) ददौ ॥अर्जुनः प्राकृतां बुद्धिं आस्थितः तपोबलसमन्विते न्यस्त शस्त्रे मे पितरि मृत्युं विदधे ।
"The most illustrious Ruchika gave it to my father Jamadagni who has no enemies . The evil minded Kartaviryarjuna killed my father who is repository of power of penance and who has sacrificed his arms".
वधम प्रतिरूपं तु पितुश्श्रुत्वा सुदारुणम् ।
क्षत्रमुत्सादयन् रोषात् जातं जातमनेकशः ॥
पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने ।
यज्ञस्यांते तदा राम दक्षिणां पुण्यकर्मणे ॥
दत्वा महेंद्रनिलयः तपोबलसमन्वितः ।
स्थितोस्मि तस्मिंस्तप्यन् वै सुसुखं सुरसेविते॥
स॥ पितुः सुदारुणम् वधं श्रुत्वा रोषात् जातं जातं अनेकशः क्षत्रं अप्रतिरूपम् उत्सादयन् ॥अखिलं पृथिवीं प्राप्य यज्ञस्य अंते महात्मने पुण्यकर्मणे काश्यपाय दक्षिणाम् दत्त्वा सुर सेविते महेंद्र निलयः तस्मिन् तप्यन् तपो बलसमन्वितः सुसुखम् स्थितोस्मि वै ॥
"Hearing about the vicious killing of my father in anger, (I) killed all the kshatriyas as soon as they were born several times. Having conquered the whole earth gave the same as a gift to Kasyapa. Then moved to Mahendragri frequented by Devas. Performing penance and acquiring the power of penance I was living happily".
अद्यतूत्तम वीर्येण त्वया राम महाबल ।
श्रुतवान् धनुषो भेदं ततोsहं द्रुतमागतः ॥
तदिदं वैष्णवं राम पितृपैतामहं महत् ।
क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ॥
स॥ हे महाबल ! हे राम ! उत्तम वीर्येण त्वया धनुषो भेदं श्रुतवान् ततः अहं द्रुतं आगतः।|तत् पितृपैतामहं महत् इदं वैष्णवं उत्तमम् धनुं क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व ॥
" O Powerful one ! O Rama , hearing that with uncomparable valour you have broken the bow I have come here. This bow having come from my forefathers is a great one. You may take this bow of Vishnu as the duty of a Kshatriya".
योजयस्व धनुः श्रेष्ठे शरं परपुरंजयम्।
यदि शक्नोषि काकुत्स्थ द्वंद्वं दास्यामि ते ततः ॥
स॥ धनुः श्रेष्ठे परपुरंजयं शरं योजयस्व । हे काकुत्स्थ ! यदि शक्नोषि ततः ते द्वंद्वं दास्यामि ।
"O Kakutstha ! You string an arrow into this best of bows . Oh Kakutstha if you are able to do that I will grant you a permission to battle with me on one on one basis".
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे पंचसप्ततिमस्सर्गः ॥
Thus the seventy fifth Sarga of Balakanda comes to an end
||ओम् तत् सत्॥