||Bilvashtakam Slokas ||

॥ बिल्वाष्टकम् ॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

॥ बिल्वाष्टकम् ॥

त्रिदळं त्रिगुणाकारं
त्रिनेत्रं च त्रियायुधं
त्रिजन्म पापसंहारं
एकबिल्वं शिवार्पणं॥1||

त्रिशाखैः बिल्वपत्रैश्च
अच्चिद्रैः कोमलैः शुभैः
तवपूजां करिष्यामि
एकबिल्वं शिवार्पणं ॥2||

कोटि कन्या महादानं
तिलपर्वत कोटयः ।
काञ्चनं क्षीरदानेन
एकबिल्वं शिवार्पणं॥3||

काशीक्षेत्र निवासं च
कालभैरव दर्शनं।
प्रयागे माधवं दृष्ट्वा
एकबिल्वं शिवार्पणं॥4||

इन्दुवारे व्रतं स्थित्वा
निराहारो महेश्वराः।
नक्तं हौष्यामि देवेश
एकबिल्वं शिवार्पणं॥5||

रामलिङ्ग प्रतिष्ठा च
वैवाहिक कृतं तधा।
तटाकानि च सन्धानं
एकबिल्वं शिवार्पणं॥ 6||

अखण्ड बिल्वपत्रं च
आयुतं शिव पूजनं।
कृतं नाम सहस्रेण
एकबिल्वं शिवार्पणं॥7||

उमया सहदेवेश
नन्दि वाहनमेव च ।
भस्मलेपन सर्वाङ्गं
एकबिल्वं शिवार्पणं॥8||

सालग्रामेषु विप्राणां
तटाकं दशकूपयोः।
यज्नकोटि सहस्रस्च
एकबिल्वं शिवार्पणं॥9||

दन्ति कोटि सहस्रेषु
अश्वमेध शतक्रतौ।
कोटिकन्या महादानं
एकबिल्वं शिवार्पणं॥10||

बिल्वाणां दर्शनं पुण्यं
स्पर्शनं पापनाशनं।
अघोर पापसंहारं
एकबिल्वं शिवार्पणं॥11||

सहस्रवेद पाठेषु
ब्रह्मस्तापन मुच्यते।
अनेकव्रत कोटीनां
एकबिल्वं शिवार्पणं॥12||

अन्नदान सहस्रेषु
सहस्रोप नयनं तधा।
अनेक जन्मपापानि
एकबिल्वं शिवार्पणं॥13||

बिल्वस्तोत्रमिदं पुण्यं
यः पठेश्शिव सन्निधौ।
शिवलोकमवाप्नोति
एकबिल्वं शिवार्पणं ॥14||

||इति बिल्वाष्टकम् समाप्तम्॥||

 

|| Om tat sat ||