||Navagraha Stotram Slokas ||

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

॥नवग्रह स्तोत्रं॥

॥नवग्रह ध्यानश्लोकम्॥

आदित्याय च सोमाय मङ्गळाय बुधाय च |
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ||

रविः
जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् |
तमोरियं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ||

चन्द्रः
दथिशज्ञ तुषाराभं क्षीरार्णव समुद्भवम् |
नमामि शशिनं सोमं शम्भोर्-मकुट भूषणम् ||

कुजः
धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् |
कुमारं शक्ति हस्तं तं मङ्गळं प्रणमाम्यहम् ||

बुधः
प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् |
सौम्यं सत्व गुणोपेतं तं बुधं प्रणमाम्यहम् ||

गुरुः
देवानां च ऋषीणां च गुरुं काञ्चन सन्निभम् |
बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ||

शुक्रः
हिमकुन्द मृणाळाभं दैत्यानं परमं गुरुम् |
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ||

शनिः
नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् |
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ||

राहुः
अर्थकायं महावीरं चन्द्रादित्य विमर्धनम् |
सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ||

केतुः
फलास पुष्प सङ्काशं तारकाग्रहमस्तकम् |
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ||

फलश्रुतिः
इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः |
दिवा वा यदि वा रात्रौ विघ्न शान्तिर्भविष्यति ||

नर नारी नृपाणां च भवे द्दुस्वप्ननाशनम् |
ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ||

ग्रह नक्षत्रजाः पीडा स्तस्कराग्नि समुद्भवाः |
तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते नसंशयः ||

|| इति नवग्रह स्तोत्रं समाप्तम्॥


|| Om tat sat ||