Bhagavadgita !

Chapter 8

Akshara Parabrahma !

भगवद्गीत
अष्टमाध्यायः
अक्षरपरब्रह्म योगमु

अर्जुन उवाच:

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तं अधिदैवं किमुच्यते ॥
अधियज्ञः कथं को अत्र देहे अस्मिन् मधुसूदन।
प्रायाणकाले च क्थं ज्ञेयोsसि नियतात्मभिः ॥

स॥ हे पुरुषोत्तम ! तत् ब्रह्म किं? अध्यात्मं किं? कर्म किं? अधिभूतं च किं प्रोक्तं? अधिदैवं किमुच्यते ? हे मधुसूदन ! अस्मिन् देहे अधियज्ञः कः? अत्र प्रयाणकालेच नियतात्मभिः कथं (त्वं) ज्ञेयः असि ॥

श्री भगवानुवाच:

अक्षरं ब्रह्म परं स्वभावो अध्यात्ममुच्यते।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥

स॥ परमं अक्षरं ब्रह्म स्वभावं अध्यात्मं उच्यते । भूतभावोद्भवकरः विसर्गः कर्मसंज्ञितः॥

अधिभूतं क्षरो भावः पुरुषाश्चाधिदैवतम् ।
अधियज्ञोsहमेवात्र देहे देहभृतां वर॥

स॥ देहभृतां वर ( हे अर्जुन) क्षरः भावः अधिभूतं ( इति कथितः)। पुरुषः च । अधिदैवं च। अत्र देहे अहमेव अधियज्ञः ॥

अन्तकालेच मामेव स्मरन्मुक्त्वा कलेबरम्।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥

स॥ यः अन्तकालेच मां एव स्मरन् कलेबरं मुक्त्वा प्रयाति सः मद्भावं याति । अत्र अंशयः न अस्थि॥

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरं।
तं तमेवैति कौन्तेय सदा तद्भाव भावितः ॥

स॥ हे कौन्तेय ! अन्ते यं यं वापि भावम् स्मरन् कलेबरं त्यजति (सः) सदा तद्भाव भावितः तं तं एव एति ॥

तस्मात् सर्वेषुकालेषु मामनुस्मरयुध्य च ।
मय्यर्पित मनोबुद्धिः मामेवैष्यस्यसंशयः ॥

स॥ तस्मात् सर्वेषु कालेषु माअं अनु स्मर । युध्य च । मयि अर्पित मनो बुद्धिः मां एव एष्यसि । असंशयः ।

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥

स॥ हे पार्थ ! अभ्यास योग युक्तेन अन्य गामिना चेतसा दिव्यं परमम् पुरुषं अनुचिन्तयन् ( तं ब्रह्मं एव) याति ॥

कविं पुराणमनुशासितार
मनोरणीयांसमनुस्मरेद्यः।
सर्वस्यधातारमचिन्त्यरूपं
आदित्यवर्णं तमसः पुरस्तात् ॥
प्रायाणकाले मनसाsचलेन
भक्त्य युक्तो योगबलेन चैव।
भ्रुवोर्मध्ये प्राणमावेस्य सम्यक्
स तं परं पुरुषं उपेति दिव्यं॥

स॥ यः भक्त्या युक्तः प्रयाणकाले योगबलेन प्राणं भृवोः मध्ये सम्यक् आवेश्य च कविं पुराणं अनुशासितारं अणोः अणीयांसम् सर्वस्य धातारम् अचिन्त्य रूपम् आदित्य वर्णं तमसं परस्तात् पुरुषं अचलेन मनसा अनुस्मरेत् सः दिव्यं परं तं एव उपैति ॥

यदक्षरं वेद विदो वदन्ति
विशन्ति यद्यतयो वीतरागाः।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्तेपदं संग्रहेण प्रवक्ष्ये ॥

स॥ वेद विदः यत् अक्षरं वदन्ति वीतरागाः यतयः यत् वीसन्ति यत् इच्छन्तः ब्रह्मचर्यं चरन्ति तत् पदं ते संग्रहेण प्रवक्ष्ये ॥

सर्वद्वाराणि संयम्य मनो हृदिनिरुध्यच ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्॥
ओम् इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥

स॥ यः सर्वद्वाराणि संयम्य मनः हृदि निरुध्य च मूर्ध्नि प्राणम् आधाय आत्मनः योगधारिणाम् आस्थितः ब्रह्म ओं इति एकाक्षरम् व्याहरन् मां अनुस्मरन् देहन् त्यजन् प्रयाति सः परमां गतिं याति ॥

अनन्यचेताः सततं योमां स्मरति नित्यशः।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥

स॥ पार्था । यः अनन्य चेताः मां नित्यशः सततं स्मरति नित्ययुक्तस्य तस्य अहं सुलभः ॥

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति माहात्मानः संसिद्धिं परमां गतिम्॥

स॥ परमां संसिद्दिम् ( मोक्षं ) गताः महात्मनः मां पुनः दुःखालयं अशाश्वतं जन्म न आप्नुवन्ति ॥

अब्रह्मभवनाल्लोकाः पुनरावर्तिनोsर्जुन ।
मामुपेत्यतु कौन्तेय पुनर्जन्म न विद्यते ॥

स॥ हे अर्जुन! आब्रह्म भुवनाल्लोकाः पुनरावर्तिनः मां उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥

सहस्रयुगपर्यन्तं अहर्यद्ब्रह्मणो विदुः।
रात्रिं युगसहस्रान्तां तेsहोरात्रविदो जनाः ॥

स॥ ए जनाः ब्रह्मणः यत् अहः (तं) सहस्रयुग पर्यन्तं विदुः ते अहोरात्रविदः ॥

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्त संज्ञके ॥

स॥ अहः आगमे अव्यक्तात् सर्वाः व्यक्तयः प्रभवन्ति । रात्रि आगमे अव्यक्तसंज्ञके तत्रैव प्रलीयन्ते ॥

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।
रात्र्यागमे अवशः पार्थ प्रभवत्यहरागमे ॥

स॥हे पार्थ ! स एव अयं भूतग्रामः अवशः भूत्वा भूत्वा रात्रि आगमे प्रलीयते ( पुनः) अहः आगमे प्रभवति ॥

परस्तस्मात्तु भावोsन्यो अव्यक्तोsव्यकात्सनातनः ।
यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥

स॥ यः भावः तस्मात् अव्यक्तात्तु अन्यः परः सनातनः सः सर्वभूतेषु नश्यत्सु न विनश्यति ॥

अव्यक्तोक्षर इत्युक्त समाहुः परमां गतिम्।
यं प्राप्य ननिवर्तन्ते तद्धाम परमं मम ॥

स॥ (यः ) अव्यक्तः अक्षर इति उक्तः तंपरमां गतिं आहुः । यं प्राप्य न निवर्तन्ते तत् मम परमं धाम ॥

पुरुषः स पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥

स॥हे पार्थ ! भूतानि यस्य अन्तः स्थानि येन इदं सर्वं ततम् सःपरः पुरुषः
अनन्यया भक्त्यातु लभ्यः ॥

यत्रकाले त्वनावृत्तिं आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥

स॥ हे भरतर्षभ ! यत्रकाले प्रयाताः योगिनः अनावृत्तिंतु आवृत्तिं च एव पुनरावृत्तिं यान्ति तं कालं वक्ष्यामि ॥

अग्निज्योतिरहश्शुक्ल ष्षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥

स॥ अग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तरायणं ( यत्र सन्ति) तत्र प्रयाताः ब्रह्मविदः जनाः ब्रह्म गच्छन्ति ॥

धूमोरात्रिः तदा कृष्ण ष्षण्मासा दक्षिणायणम्।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥

स॥ धूमः रात्रिः तथा षण्मासाः दक्षिणायनम् (यत्र सन्ति) तत्र योगी चान्द्रमसं ज्योतिः प्राप्य (पुनः) निवर्तते ॥

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकयायत्यनावृतिमन्यया आवर्तते पुनः ॥

स॥ शुक्ल कृष्णे एते गती हि जगतः शाश्वते मते एकया अनावृत्तिं याति । अन्यया पुनः आवर्तते।

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तोभवार्जुन ॥

स॥ हे अर्जुना! एते सृती जानन् योगी कश्चन न मुह्यति ।तस्मात् अर्जुन सर्वेषु कालेषु यॊगयुक्तः भव ॥

वेदेषुयज्ञेषु तपस्सु चैव
दानेषु यत्पुण्यफलं प्रदिष्ठं।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम्॥

स॥ योगी इदं विदित्वा वेदेषु यज्ञेषु दानेषु तपःसु च यत् पुण्यफलम् प्रदिष्टम् तत् सर्वं अत्येति च आद्यं परं स्थानम् उपैति॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे अक्षरपरब्रह्मयोगोनाम
अष्टमोsध्यायः
ओं तत् सत्

 

|| om tat sat ||