||Sundarakanda ||

|| Sarga 48||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ अष्टचत्त्वारिंशस्सर्गः॥

ततस्सरक्षोधिपतिर्महात्मा
हनूमताक्षे निहते कुमारे।
मनः समाधाय सदेवकल्पं
समादिदेशेंद्रजितं सरोषम्॥1||

स॥ ततः रक्षोधिपतिः महात्मा हनुमता कुमारे अक्षे निहते मनः समाधाय सरोषं देवकल्पं इंद्रजितं समादिदेश ॥

Angry because of prince Aksha being killed by great Hanuman ,the king of Rakshasas controlling his mind then ordered Indrajit who is like a god.

त्वमस्त्रविच्छस्त्रविदां वरिष्ठः सुरासुराणामपि शोकदाता।
सुरेषुसेंद्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः॥2||

स॥त्वं अस्त्रवित् शस्त्रविदां वरिष्ठः । सुराणां असुराणां अपि शोक दाता। स इंद्रेषु सुरेषु दृष्टकर्मा । पितामहाराधन संचितास्त्रः॥

' You are knower of weapons and the best among the knowers of weapons too. You brought grief to Suras and Asuras. A warrior of proven ability among gods including Indra, you have acquired many weapons by propitiating Brahma'.

तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः।
न शेकुः समरेस्थातुं सुरेश्वर समाश्रिताः॥3||
नकश्चित् त्रिषु लोकेषु संयुगे न गतश्रमः।
भुजवीर्यगुप्तश्च तपसा चाभिरक्षितः।
देशकालविभागज्ञः त्वमेव मतिसत्तमः॥4||

स॥ तव अस्त्रबलं आसाद्य न असुरा न मरुद्गणाः न सुरेश्वरः समाश्रिताः समरे स्थातुं शेकुः ॥संयुगेन गतश्रमः कश्चित् त्रिषु लोकेषु न । मतिसत्तमः त्वमेव भुजवीर्याभिगुप्तश्च तपसा अभिरक्षितः देवकालविभागज्ञः॥

' Because of the strength of Astras you acquired, Asuras or Maruts including Indra cannot stand in front of you in a battle. There is none who has not experienced fatigue in the war in the three worlds. You are the most intelligent, protected by the strength of your own shoulders, protected with the power of penance. You are aware of proper place and time of action'.

नतेsस्त्वशक्यं समरेषु कर्मणा न तेsस्त्यकार्यं मतिपूर्व मंत्रणे।
नसोsस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्तेsस्त्रबलं बलं च ते॥5||
ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे।
न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्चति निश्चितार्थम्॥6||

स॥ समरेषु कर्मणा ते अशक्यं नास्ति। मतिपूर्वमंत्रेण ते अकार्यं नास्ति। त्रिषु संग्रहेषु यः ते अस्त्रबलं ते बलं च न वेद सः कश्चित् नास्ति॥ते तपसः बलं मम अनुरूपं संयुगे पराक्रमश्च बलं च रणावमर्थे ।त्वां समासाद्य मनः निश्चितार्थं श्रमम् न गच्छति॥

' There is nothing not possible for you in war. With wise counsel there is no impossible act. In the three worlds there is none who does not know the strength of your weapons and your power to recall a weapon you have discharged. Your power of penance is equal to mine. So are your valor and ability to discharge weapons in war. In what you are engaged, your mind is sure of action and does not go to despair'.

निहताः किंकराः सर्वे जंबुमालीच राक्षसः॥7||
अमात्यपुत्त्रा वीराश्च पंचसेनाग्रयायिनः।
बलानि सुसमृद्धानि साश्वनागरथानिच॥8||
सहोदरः ते दयितः कुमारोsक्षश्च सूदितः।
न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन॥9||

स॥ किंकराः तथैव जंबुमाली च अमात्यपुत्राश्च वीराः च पंचसेनाग्रयायिनः बलानि सुसमृद्धानि स अश्वनागरथानि च सर्वे निहताः ॥ते सहोदरः दयितः कुमारः अक्षः च सूदितः । अरिनिषूदन मे त्वयि सारः तेष्वेव न हि॥

' Kinkaras similarly Jambumali, as well as the ministers sons, and the five generals too are killed along with forces fully provided with horses, elephants, and chariots .Your dear brother prince Aksha too is killed. Oh Scourge of enemies I have real faith in you not them'.

इदं हि दृष्ट्वा मतिमन्महद्बलम् कपेः प्रभावं च पराक्रमं च।
त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम्॥10||
बलावमर्दस्त्वयि सन्निकृष्टे यथागते शाम्यति शांतशत्रौ।
तथा समीक्ष्यात्मबलं परं च समारभस्व अस्त्रविदां वरिष्ठ ॥11||

स॥ मतिमन् त्वं कपेः इदं महत् बलं प्रभावं च पराक्रमं च आत्मनः सारं चापि समीक्ष्य स्वबलानुरूपं वेगं कुरुष्व॥अस्त्रविदां वरिष्ठ त्वयि सन्निकृष्टे शांतशत्रौ गते बलावमर्थः यथा शाम्यति तथा आत्मबलं परं च समीक्ष्य समारभस्व॥

' Oh Intelligent one ! The great strength, power and valor of the Vanara is to be observed along with your own strength carefully. Act according to your own strength only. Oh Best among the experts in archery, going there and judging the strength, then approach the enemy and start the battle in a manner that he does not cause further destruction'.

न वीर सेना गणशोच्यवंति न वज्र मादाय विशाल्पसारम्।
न मारुतस्यास्य गतेः प्रमाणम् न चाग्निकल्पः करणेन हंतुम्॥12||
तमेव मर्थं प्रसमीक्ष्य सम्यक् स्वकर्मसाम्याद्धि समाहितात्मा।
स्मरं श्च दिव्यं धनुषोsस्त्रवीर्यम् प्रजाक्षतं कर्म समारभस्व॥13||

स॥ वीर गणशः सेनाः च्यवंति न । विशालसारं व्रजं आदाय न । अस्य गतेः मारुतस्य। न प्रमाणं अग्निकल्पः करणेन हन्तुं न॥तं एवं अर्थं सम्यक् प्रसमीक्ष्य स्वकर्म साम्यात् समाहितात्मा धनुषः दिव्यं अस्त्रवीर्यं स्मरं च व्रज कर्म अक्षतां समरभस्व॥

'Oh Hero ! Large armies need not go. With him having extraordinary vigor the bringing thunderbolt is no use. His speed is that of Maruti. He is like sacrificial fire which cannot be destroyed with any weapon. In that way assess the situation properly. Being a person of good judgement with single minded attention, recollecting the divine weapons with the bow move forward. Start the act without being destroyed in the middle'.

न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम्।
इयं च राजधर्माणां क्षत्रस्य च मतिर्मता॥14||
नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदम।
अवश्य मेव योद्धव्यं काम्यश्च विजयो रणे॥15|

स॥ अहं त्वां सम्प्रेषयामि इति यत् इयं मतिः श्रेष्ठा न खलु । इयं राजधर्मणां क्षत्रियस्य मतिः मता॥अरिंदम संग्रामे नानाशस्त्रेषु वैशारद्यं अवश्यमेव बोद्धव्यं । रणे विजयश्च काम्यः । ।

' I think sending you to battle in this way is not good. (However) This is in accordance with the statecraft and the duty of Kshatriyas. Hence this is approved. Oh Crusher of the enemies ! In the war ultimately efficient use of many weapons is to be known. Victory in the war is wished for' .

ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुत प्रभावः।
चकार भर्तार मदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः॥16||
तत स्तैः स्वगणैरिष्टैरिंद्रजित् प्रतिपूजितः।
युद्दोद्दतः कृतोत्साहः संग्रामं प्रत्यपद्यत ॥17||
श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः।
निर्जगाम महातेजाः समुद्र इव पर्वसु॥18||

स॥ ततः दक्षसुतप्रभावः वीरः पितुः तत् वचनं निशम्य अदीनसत्त्वः रणाय प्रतिपन्नबुद्धिः भर्तारं प्रदक्षिणं चकार ॥ ततः युद्धोद्धतः इंद्रजित् इष्टैः तैः स्वगणैः प्रतिपूजितः कृतोत्साहः संग्रामं प्रतिपद्यत ॥श्रीमान् पद्मपलाशाक्षः महातेजाः राक्षसाधिपतेः सुतः पर्वसु समुद्रः इव निर्जगाम॥

Then the hero, powerful like the son of Daksha, who is never distressed in war, hearing those words of his father prepared in his mind went round his father with due respect. Then he rushed forth for the war with renewed vigor after being honored by his own people, . The illustrious son of the Rakshasa, with eyes like the lotus petals, moved ahead like the ocean on a full moon day.

स पक्षिराजोपमतुल्यवेगैः व्याळैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः।
रथं समायुक्त मसंगवेगं समारुरोहेंद्रिजिदिंद्र कल्पः॥19||
स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोsस्त्रविदां वरः।
रथेनाभिययौ क्षिप्रं हनुमान्यत्र सोsभवत्॥20||

स॥ इंद्रकल्पः सः इंद्रजित् पक्षिराज उपम तुल्यवगैः सिततीक्ष्णदंष्ट्रैः चतुर्भिः व्याघैः समायुक्तं असहयवेगं रथं समारुरोह॥रथी धन्विनां श्रेष्ठः शस्त्रज्ञः अस्त्रविदां वरः रथेन क्षिप्रं रथेन यत्र हनुमान् अभवत् शीघ्रं अभिययौ ॥

Like Indra, Indrajit ascended the chariot drawn by four tigers with sharp teeth, capable of moving with the speed of the king of birds. The charioteer, best among the wielders of bows, best among the knowers of weapons, quickly went on his chariot to the place where Hanuman is waiting.

स तस्य रथ निर्घोषं ज्यास्वनं कार्मुकस्य च।
निशम्य हरिवीरोsसौ संप्रहृष्टतरोsभवत्॥21||
सुमहच्चापमादाय शितशल्यांश्च सायकान्।
हनुंमंत मभिप्रेत्य जगाम रणपंडितः॥22||

स॥ सः असौ हरिवीरः तस्य रथ निर्घोषं ज्यास्वनं कार्मुकस्य च निशम्य संप्रहृष्ठतरः अभवत् ॥रणपंडितः सुमहत् चापं शितशल्यान् सायकान् आदाय हनुमंतम् अभिप्रेत्य जगाम॥

Hearing the sounds of the chariot , sounds of the bow being pulled, the leader of Vanaras also became happy. Adept in war, (he) went ahead with the highly powerful bow and sharp edged arrows aiming at Hanuman.

तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ।
दिशश्च सर्वाः कलुषाबभूवुः मृगाश्च रौद्रा बहुदा विनेतुः॥23||
समागताः तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः।
नभः समावृत्य च पक्षि संघा विनेदुरुच्चैः परम प्रहृष्टाः॥24||

स॥ ततः सम्यति जातहर्षेः तस्मिन् चापाणौ रणाय निर्गच्छति सर्वाः दिशः कलुषाः बभूवुः । रौद्राः मृगाश्च बहुधा विनेदुः॥तत्र समागताः नागयक्षाः चक्रचराः महर्षयः सिद्धाः च नभः समावृत्य परम प्रहृष्टाः ।पक्षि संघाश्च उच्चैः विनेदुः॥

Then as he went forth for war feeling happy with bow in hand, all the quarters became dark. Fierce animals began to howl in many ways. There Nagas Yakshas , those who are travellers of that path, the sages, Siddhas assembled in the sky very happily. Flocks of birds screeched too.

आयांतं स रथं तूर्णमिंद्रजितं कपिः।
निननादमहानादं व्यवर्थत च वेगवान्॥25||
इंद्रजित्तु रथं दिव्यमास्थितः चित्रकार्मुकः।
धनुर्विष्फारयामास तटिदूर्जितनिस्स्वनम्॥26||
ततः समेतावति तीक्ष्णवेगौ महाबलौ तौ रणनिर्विशंकौ।
कपिश्च रक्षोधि पतेश्च पुत्त्रः सुरासुरेंद्राविव बद्धवैरौ॥27||

स॥ कपिः तूर्णम् आयांतं सरथं इंद्रजितं दृष्ट्वा महानादं विननाद। वेगवान् व्यवर्धत च॥इंद्रजित् तु दिव्यं रथं आस्थितः चित्रकार्मुकः तटिदूर्जितनिःस्वनम् धनुः विष्फारयामास॥ततः अतितीक्ष्णवेगौ महाबलौ रणनिर्विशंकौ तौ कपिः च रक्षोधिपतेः तनुश्च बद्धवैरौ सुरासुरेंद्राविव समेतौ॥

Seeing the chariot approaching swiftly , Vanara made a big sound. and quickly enlarged his body. Indrajit also sitting in his divine chariot holding the wonderful bow, pulled the string with lightning speed. The Vanara and the son of the king of Rakshasas , both very fast in speed, mighty , both fearless in war and inimical to each other like Suras and Asuras, then faced each other.

स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य।
शर प्रवेगं व्यहनत्प्रवृद्धः चचार मार्गे पितुरप्रमेये॥28||
ततः शरानायतती‍क्ष्णशल्यान् सुपत्रिणः कांचन चित्र पुंखान्।
मुमोच वीरः परवीरहंता सुसन्नतान् वज्रनिपातवेगान् ॥29||
ततस्तु तत् स्व्यंदननिस्स्वनं च मृदंगभेरीपटहास्वनंच।
निकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्प्रपात॥30||

स॥ अप्रमेयः सः प्रवृद्धः महारथस्य धनुष्मतः संयति सम्मतस्य तस्य वीरस्य शरप्रवेगं व्यहनत् । पितुः मार्गे चचार॥ततः परवीरहंता वीरः आयततीक्ष्णशल्यान् सुपत्रिणः कांचन चित्रपुंखान् सुसन्नतान् वज्रनिपातवेगान् शरान् मुमोच॥ ततः सः तस्य तत् स्यंदननिःस्वनं च मृदंगभेरीपटहस्वनं च विकृष्यमानस्य कार्मुकस्य घोषं निशम्य पुनः उत्पपात॥

Hanuman of immeasurable strength, having grown in form, made the speedy shower of arrows in the war from the bow of the great charioteer futile as he escaped moving about in the sky, the path of his father. Then the slayer of enemy warriors, discharged long and sharp pointed arrows with feathers and with gold tips which are slightly bent at the tips, which were touching the bow string, which had the speed of lightning. Then he ( Hanuman) hearing the sound of the bow being drawn, the rumbling of the chariot, beating of the Mridamgas Bheris and Patahas, and again rose up.

शरणामंतरेष्वाशु व्यवर्तत महाकपिः।
हरिः तस्याभिलक्ष्यस्य मोघयन् लक्ष्य संग्रहम्॥31||
शरणामग्रतस्तस्य पुनस्समभिवर्तत
प्रसार्य हस्तौ हनुमान् उत्पपातानिलात्मजः॥32||
ता वुभौ वेगसंपन्नौ रणकर्म विशारदौ।
सर्वभूतमनोग्राहि चक्रतुर्युद्ध मुत्तमम्॥33||

स॥ महाकपिः हरिः आशु अभिलक्षस्य तस्य लक्ष्यसंग्रहं मोघयन् शराणां अंतरेषु व्यवर्तत॥अनिलात्मजः हनुमान् तस्य शराणां अग्रतः समभिवर्तत हस्तौ प्रसार्य उत्पपात॥ता वुभौ रणकर्म विशारदौ वेगसंपन्नौ सर्वभूतमनोग्राहि उत्तमं युद्धं चक्रतुः॥

The great Vanara made the arrows being aimed at the target futile, by moving in the space between the arrows. The son of wind god Hanuman moving ahead of the arrows with hands and legs outstretched, jumped. Both endowed with speed and both experts in warfare fighting a great war, captivated the minds of all creatures.

हनूमतो न वेद राक्षसोंतरम् नमारुतिः तस्य महात्मनोंतरम् ।
परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ॥34||
ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च संपतत्सु।
जगाम चिंतां महतीं महात्मा समाधि संयोग समाहितात्मा॥35||
ततो मतिं राक्षसराजसूनुश्चकार तस्मिन् हरिवीरमुख्ये।
अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम्॥36||

स॥ राक्षसः हनूमतः अन्तरं न वेद । मारुतिः महात्मनः तस्य न । देवसमानविक्रमौ तौ समेत्य परस्परं निर्विषहौ बभूवतुः ॥ ततः लक्ष्ये विहन्यमाने अमोघेषु शरेषु संपतत्सु महात्मा समाधिसंयोगसमाहितात्मा सः महतीं चिंतं जगाम॥ततः राक्षसराजसूनः तस्य कपेः अवध्यतां समीक्ष्य निग्रहार्थं कथं निगच्छेत् इति तस्मिन् हरिप्रवीरमुख्ये मतिं चकार॥

The Rakshasa did not find a way to hit Hanuman. Maruti did not find one too. Both being equal to Devas in war were unable to bear each other. Indrajit's infallible arrrows missed Hanuman. The great warrior became perplexed and started thinking seriously within himself. Then the son of the king of Rakshasa, thinking that the Vanara can not be killed, thought in his mind about how the Vanara may be captured.

ततः पैतामहं वीर स्सोsस्त्रमस्त्रविदां वरः।
संदधे सुमहातेजाः तं हरिप्रवरं प्रति॥37||
अवध्योयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्।
निजग्राह महाबाहुः मारुतात्मजमिंद्रजित्॥38||
तेन बद्धस्ततोsस्त्रेण राक्षसेन स वानरः।
अभवन्निर्विचेष्टश्च पपात च महीतले॥39||

स॥ ततः वीरः अस्त्रविदां वरः सुमहातेजाः सः हरिप्रवीरं प्रति पैतामाहं अस्त्रं संदधे॥अस्त्रतत्ववित् महाबाहुः इंद्रजित् अवध्यः इति ज्ञात्वा तं मारुतात्मजं अस्त्रेण निजग्राह॥ततः तेन राक्षसेन अस्त्रेण बद्धः सः वानरः निर्विचेष्टः अभवत् । सः महीतले पपात॥

Then the Hero , best among those knowledgeable of weapons, invoked the grandfather Brahma's weapon at the foremost of Vanaras. That expert in weapons, the long armed Indrajit knowing that he can not be killed bound the the son of wind god with that weapon. Thus bound by that weapon, the Vanara was unable to move. He fell down on the ground.

ततोsथ बुद्ध्वा स तदास्त्रबंधं प्रभोः प्रभावात् विगतात्मवेगः।
पितामहानुग्रहमात्मनश्च विचिंतयामास हरिप्रवीरः ॥40||
ततः स्वायंभुवैर्मंत्रैः ब्रह्मास्त्रमभिमंत्रितम्।
हनुमांश्चिंतयामास वरदानं पितामहत्॥41||

स॥ ततः अथ सः हरिप्रवीरः तत् अस्त्रबंधं बुद्ध्वा प्रभोः विगतात्म वेगः आत्मनः पितमहानुग्रहं विचिंतयामास॥ततः हनुमान् स्वायंभुवैः मंत्रैः अभिमंत्रं ब्रह्मास्त्रं पितामहात् वरदानं चिंतयामास॥

Then the best of Vanaras realising the power of that weapon which arrested his movement as due to the grace of the lord, started thinking about the boon of the Lord Brahma. Then Hanuman started thinking about the Brahmastra, the weapon that invokes the creator Brahma, and the boon given to him.

नमेsस्त्रबंधस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात्।
इत्येव मत्वा विहितोsस्त्रबंधो मयाssत्मयोनेरसुवर्तितव्यः॥42||
सवीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च।
विमोक्ष शक्तिं परिचिंतयित्वा पितामहाज्ञामनुवर्तते स्म॥43||

स॥ लोकगुरोः प्रभावात् अस्त्रबंधनस्य विमोक्षणे मे शक्तिः नास्ति। इत्येवं मत्वा विहितः आत्मयोनेः अस्त्रबंधः मया अनुवर्तितव्यः॥ स कपिः अस्त्रस्य वीर्यं विचार्य आत्मनः पितमहानुग्रहं च विमोक्षणशक्तिं परिचिंतयित्वा पितामह आज्ञां अनुवर्तते स्म॥

(He thought) 'Because of the effect of the power of Brahma it is not possible for me to be released'. Having thought as above he decided that the weapon should be obeyed .The Vanara reflecting on the power of that weapon, recalling the power of liberation from the bondage by the favor of Brahma, resolved to obey the order of Brahma.

अस्त्रेणापि हि बद्धस्य भयं मम न जायते।
पितामहेंद्राभ्यां रक्षितस्यानिलेनच ॥।44|||
ग्रहणेचापि रक्षोभिर्महान्मे गुणदर्शनः।
राक्षसेंद्रेण संवादः तस्मात् गृह्णंतु मांपरे॥45||

स॥ अस्त्रेणापि बद्धस्य हि मम भयं न जायते। पितामहेंद्राभ्यां अनिलेन च रक्षितः स्यात्॥रक्षोभिः ग्रहणे चापि मे महत् गुणदर्शनं राक्षसेंद्रेण संवादः तस्मात् माम् परे गृह्णंतु॥

'Though bound by that weapon, I have no fear. I am being protected by Brahma, Indra and the wind god. If I am being held by the Rakshasas I will have a great opportunity to see the king of Rakshasas and discuss. Therefore let them catch me'.

स निश्चितार्थः परवीरहंता समीक्ष्यकारी विनिवृत्तचेष्टः।
परैः प्रसह्याभिगतैर्निगृह्य ननाद तैः तैः परिभर्त्यृमानः॥46||

स॥ परवीरहंता समीक्ष्यकारी सः निश्चितार्थः विनिवृत्तचेष्टः अभिगतैः तैः तैः परैः प्रसह्य निगृह्य परिभर्त्समानः ननाद॥

That killer of the enemy warriors, and one who asses before he acts, thus resolved firmly. Seized by the enemies forcibly, and with his power of movement arrested, (he) went slowly slowly. Abused he roared.

ततः तं राक्षासा दृष्ट्वा निर्विचेष्टमरिंदमम्।
बबंधुः शणवल्कैश्च द्रुमचीरैश्च संहतैः॥47||

स॥ ततः राक्षसाः अरिंदमम् तं निर्विचेष्टम् दृष्ट्वा शणवल्कैश्च संहतैः द्रुमचीरैश्च बबंधु॥

Then the Rakshasas seeing that scorcher of enemies refraining from movement, bound him with a rope and bark clothes.

स रोचयामास परैश्चबंधनम् प्रसह्यवीरैरभिनिग्रहं च।
कौतुहलान्मां यदि राक्षसेंद्रो द्रष्टुंव्यवस्येदिति निश्चितार्थः॥48||

स॥ राक्षसेंद्रः माम् कौतुहलात् द्रष्टुं व्यवस्येद्यपि इति निश्चितार्थः सः परैः बंधनं वीरैः प्रसह्य अभिनिग्रहं च रोचयामास॥

'The king of Rakshasas out of curiosity may come to see me if he decides', thinking this way (he) decided to enjoy the bondage by the warriors, even capture by force.

स बद्धस्तेन वल्केन विमुक्तोsस्त्रेण वीर्यवान्।
अस्त्रबंधः स चान्यां हि न बंधमनुवर्तते॥49||
अथेंद्रजित्तु द्रुमचीरबद्धं विचर्यवीरः कपिसत्तमं तम्।
विमुक्त मस्त्रेण जगाम चिंताम् नान्येन बद्धो ह्यनुवर्ततेsस्त्रम्॥50||
अहो महत्कार्य कृतं निरर्थकं न राक्षसैर्मंत्रगतिर्विमृष्ठा।
पुनश्च नास्त्रे विहतेsस्त्रमन्यत् प्रवर्तते संशयिताः स्म सर्वे॥51||

स॥ तेन वल्केन बद्धः वीर्यवान् सः अस्त्रेण विमुक्तः । सः अस्त्रबंधः अन्यं बंधं न अनुवर्तते हि॥अथ वीरः इंद्रजित् द्रुमचीरबद्धं तं कपिसत्तमं अस्त्रेण विमुक्तं विचार्य चिंतां जगाम । बद्धः अस्त्रं न अनुवर्तते हि॥अहो महत् कर्म निरर्थकं कृतं । राक्षसैः मंत्रगतिः न विमृष्टाः । मंत्रे विहते अन्यत् अस्त्रं न प्रवर्तते । सर्वे संशयिताः स्म॥

The hero bound by the bark is freed by that weapon. That weapon does not tolerate another bondage. Then the hero Indrajit knowing that the best of Vanaras bound by bark rope is thus freed from that weapon started thinking. ' Bound by others the weapon does not follow. Alas great effort has been wasted. The impact of mantra is not considered by the Rakshasas. When mantra is ineffective no other weapon can be effective. We are running a risk'.

अस्त्रेण हनुमान् मुक्तोनात्मानमवबुध्यत।
कृष्यमाणस्तु रक्षोभिः तैश्च बंधैर्निपीडितः॥52||
हन्यमानः ततः क्रूरै राक्षसैः काष्टमुष्टिभिः।
समीपं राक्षसेंद्रस्य प्राकृष्यत स वानरः॥53||

स॥ हनुमान् आत्मानं अस्त्रेण मुक्तः न अवबुध्यत । तैः रक्षोभिः कृष्यमाणः बंधैः निपीडितः आत्मानं न अवबुध्यत॥ ततः सः वानरः कॄरैः राक्षसैः काष्ठमुष्टिभिः हन्यमानः राक्षसेंद्रस्य समीपं प्राकृष्यत॥

Hanuman did not know that he has been released by that weapon. Bound and dragged by the Rakshasas , he was being hurt. Then that Vanara beaten with sticks and fists was dragged to the presence of the king of Rakshasas.

अथेंद्रजित्तं प्रसमीक्ष्यमुक्तं अस्त्रेण बद्धं द्रुमचीरसूत्रैः।
व्यदर्शयत्तत्र महाबलम् तं हरिप्रवीरं सगणाय राज्ञे॥54||

स॥ अथ द्रुमचीरसूत्रैः बद्धं तं अस्त्रेण मुक्तं प्रसमीक्ष्य इंद्रजित् महाबलं तं हरिप्रवीरं तत्र सगणाय राज्ञे न्यदर्शयत्॥

Then seeing that one bound by the bark ropes and released by that Brahma Astra, mighty Indrajit showed the best of Vanaras to the king along with his courtiers in the assembly.

तं मत्तमिव मातंग बद्धं कपिवरोत्तमम्।
राक्षसा राक्षसेंद्राय रावणाय न्यवेदयन्॥55||
कोsयं कस्य कुतोवाsत्र किं कार्यं को व्यपाश्रयः।
इति राक्षसवीराणां तत्र संजज्ञिरे कथाः॥56||
हन्यतां दह्यतां वाsपि भक्ष्यतामिति चापरे।
राक्षसाः तत्र संक्रुद्धाः परस्पर मथाsब्रुवन्॥57||

स॥ मत्तं मातंगं इव बद्धं कपिवरोत्तमं तं राक्षसः राक्षसेंद्राय रावणाय न्यवेदयत्॥कः अयं। कस्य कुतः वा अत्र। किं कार्यं । कः व्यपाश्रयः। इति राक्षवीराणां कथाः संजिज्ञिरे॥अथ अपरे राक्षसाः संकृद्धाः हन्यताम् दह्यतां चापि भक्ष्यतां इति परस्परं अब्रुवन् ॥

The best of Vanaras , bound like an elephant in the rut, was presented to Ravana by the Rakshasa. ' Who is this. Whose is he .And from where did he come. What business does he have'.Thus the Rakshasa heroes talked among themselves. Then some other Rakshasas said to each other 'Kill him. Burn him . otherwise eat him up'.

अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोsधिपपादमूले।
ददर्श राज्ञः परिचारवृद्दान् गृहं महारत्न विभूषितं च॥58||

स॥ महात्मा सः सहसा मार्गं अतीत्य तत्र राज्ञः महारत्नविभूषितं गृहं रक्षोधिपपादमूले परिचारवृद्धान् ददर्श॥

The great one quickly crossing the path came near the king's palace adorned with precious gems. Near his feet he saw aged and experienced ones.

स ददर्श महातेजा रावणः कपिसत्तमम्।
रक्षोभिर्विकृताकारैः कृष्यमाण मितस्ततः॥59||
राक्षसाधिपतिं चापि ददर्श कपिसत्तमः।
तेजोबलसमायुक्तं तपंतमिव भास्करम्॥60||

स॥ महतेजाः सः रावणः विकृताकारैः रक्षोभिः इतः ततः कृष्यमानं कपिसत्तमं ददर्श॥कपिसत्तमः च तेजोबलसमायुक्तं तपंतं भास्करं इव राक्षसाधिपतिं ददर्श॥

The replendent one, that Ravana saw the foremost of Vanaras dragged here ad there by the Rakshasas.The best of Vanaras also saw the Rakshasa king who had splendor and strength, radiating brilliance like the Sun.

सरोषसंवर्तित ताम्रदृष्टिः दशाननः तं कपिमन्ववेक्ष्य।
अथोपविष्यान् कुलशीलवृद्धान् समादिशत्तं प्रतिमंत्रिमुख्यान्॥61||
यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ।
निवेदयामास हरीश्वरस्य दूतः सकाशात् अहमागतोस्मि॥62||

स॥ सः दशाननः रोषसंवर्तितताम्रदृष्टिः तं कपिं अन्वेक्ष्य अथ उपविष्टान् कुलशीलबद्धान् मंत्रिमुख्यान् तंप्रति समादिशत् ॥तैः यथाक्रमं कार्यार्थं अर्धस्य मूलं विपृष्टः सः कपिः हरीश्वरस्य सकाशात् सकाशात आगतः अस्मि निवेदयामास॥

The ten-headed one with his red eyes rolling in rage observing the Vanara closely ordered the noble and aged ministers and important ministers regarding him. In proper order the purpose, origin of the purpose were asked by them. The Vanara reported that he is a messenger of the king of Vanaras. 'By order of the king, I came from his place'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे अष्टचत्त्वारिंशस्सर्गः ॥

Thus ends Sarga forty eight of Sundarakanda in Ramayana , the first poem ever composed by the first poet sage Valmiki.

|| om tat sat||