||Bhaja Govindam Slokas ||

॥ भजगोविंदम् ॥

|| Om tat sat ||

( Slokas in this page follow the sequence of Bhaja Govindam publication of Chinmaya mission)

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

॥ भजगोविंदम् ॥

भज गोविन्दं भज गोविन्दं
गोविन्दं भज मूढमते |
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुक्रिञ्करणे || 1 ||

मूढ जहीहि धनागमतृष्णां
कुरु सद्बुद्धिम् मनसि वितृष्णाम् |
यल्लभसे निज कर्मोपात्तं
वित्तं तेन विनोदय चित्तम् || 2 ||

नारी स्तनभर नाभीदेशं
दृष्ट्वा मा गा मोहावेशम् |
एतन्मांस वसादि विकारं
मनसि विचिन्तया वारं वारम् || 3 ||

नळिनी दळगत जलमति तरळं
तद्वज्जीवित मतिशय चपलम् |
विद्धि व्याध्यभिमान ग्रस्तं
लोकं शोकहतं च समस्तम् || 4 ||

यावद्-वित्तोपार्जन सक्तः
तावन्-निजपरिवारो रक्तः |
पश्चाज्जीवति जर्जर देहे
वार्तां कोऽपि न पृच्छति गेहे || 5 ||

यावत्-पवनो निवसति देहे
तावत्-पृच्छति कुशलं गेहे |
गतवति वायौ देहापाये
भार्या बिभ्यति तस्मिन् काये || 6 ||

बाल स्तावत् क्रीडासक्तः
तरुण स्तावत् तरुणीसक्तः |
वृद्ध स्तावत्-चिन्तामग्नः
परमे ब्रह्मणि कोऽपि न लग्नः || 7 ||

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः |
कस्य त्वं वा कुत आयातः
तत्वं चिन्तय तदिह भ्रातः || 8 ||

सत्सङ्गत्वे निस्सङ्गत्वं
निस्सङ्गत्वे निर्मोहत्वम् |
निर्मोहत्वे निश्चलतत्त्वं
निश्चलतत्त्वे जीवन्मुक्तिः || 9 ||

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः |
क्षीणे वित्ते कः परिवारः
ज्ञाते तत्त्वे कः संसारः || 10 ||

मा कुरु धनजन यौवन गर्वं
हरति निमेषात्-कालः सर्वम् |
मायामयमिदमखिलं हित्वा
ब्रह्मपदं त्वं प्रविश विदित्वा || 11 ||

दिन यामिन्यौ सायं प्रातः
शिशिर वसन्तौ पुनरायातः |
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः || 12 ||

का ते कान्ता धन गत चिन्ता
वातुल किं तव नास्ति नियन्ता |
त्रिजगति सज्जन सङ्गतिरेका
भवति भवार्णव तरणे नौका || 13 ||

जटिलो मुण्डी लुञ्जित केशः
काषायान्बर बहुकृत वेषः |
पश्यन्नपि च न पश्यति मूढः
उदर निमित्तं बहुकृत वेषः || 14 ||

अङ्गं गलितं पलितं मुण्डं
दशन विहीनं जातं तुण्डम् |
वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशा पिण्डम् || 15 ||

अग्रे वह्निः पृष्ठे भानुः
रात्रौ चुबुक समर्पित जानुः |
करतल भिक्षस्तरुतल वासः
तदपि न मुञ्चत्याशा पाशः || 16 ||

कुरुते गङ्गा सागर गमनं
व्रत परिपालनमथवा दानम्
ज्ञान विहीनः सर्वमतेन
भजति न मुक्तिं जन्म शतेन || 17 ||

सुरमन्दिर तरु मूल निवासः
शय्या भूतलमजिनं वासः |
सर्व परिग्रह भोगत्यागः
कस्य सुखं न करोति विरागः || 18 ||

योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः |
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव || 19 ||

भगवद्गीता किञ्चिदधीता
गङ्गा जललव कणिका पीता |
सकृदपि येन मुरारी समर्चा
क्रियते तस्य यमेन न चर्चा || 20 ||

पुनरपि जननं पुनरपि मरणं
पुनरपि जननी जठरे शयनम् |
इह संसारे बहु दुस्तारे
कृपयाऽपारे पाहि मुरारे || 21 ||

रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः |
योगी योग नियोजित चित्तः
रमते बालोन्मत्तवदेव || 22 ||

कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः |
इति परिभावय निज संसारं
सर्वं त्यक्त्वा स्वप्न विचारम् || 23 ||

त्वयि मयि सर्वत्रैको विष्णुः
व्यर्थं कुप्यसि मय्यसहिष्णुः |
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् || 24 ||

शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रह सन्धौ |
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्-सृज भेदज्ञानम् || 25 ||

कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं पश्यति सोऽहम् |
आत्म ञान न विहीना मूढाः
ते पच्यन्ते नरक निगूढाः || 26 ||

गेयं गीता नाम सहस्रं
ध्येयं श्रीपति रूपमजस्रम् |
नेयं सज्जन सङ्गे चित्तं
देयं दीनजनाय च वित्तम् || 27 ||

सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः |
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् || 28 ||

अर्थमनर्थं भावय नित्यं
नास्ति ततः सुख लेशः सत्यम् |
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः || 29 ||

प्राणायामं प्रत्याहारं
नित्यानित्य विवेक विचारम् |
जाप्यसमेत समाधि विधानं
कुर्व वधानं महदवधानम् || 30 ||

गुरु चरणाम्भुज निर्भरभक्तः
संसारादचिराद्भव मुक्तः |
सेन्द्रिय मानस नियमादेवं
द्रक्ष्यसि निज हृदयस्थं देवम् || 31 ||

मूढः कश्चिन वैयाकरणो
डुक्रिञ्करणाध्ययन धुरीणः |
श्रीमच्छङ्कर भगवच्चिष्यैः
बोधित आसीच्छोदित करणैः || 32 ||

|| इति भजगोविंदं समाप्तम्॥

|| Om tat sat ||