|| Slokas ||

॥ गङ्गा स्तोत्रं॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

॥ गङ्गा स्तोत्रं॥

देवि! सुरेश्वरि! भगवति! गङ्गे
त्रिभुवनतारिणि तरळतरङ्गे |
शङ्करमौळिविहारिणि विमले
मम मतिरास्तां तव पदकमले || 1 ||

भागीरथिसुखदायिनि मातः
तव जलमहिमा निगमे ख्यातः |
नाहं जाने तव महिमानं
पाहि कृपामयि मामज्ञानम् || 2 ||

हरिपदपाद्यतरङ्गिणि गङ्गे
हिमविधुमुक्ताधवळतरङ्गे |
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम् || 3 ||

तव जलममलं येन निपीतं
परमपदं खलु तेन गृहीतम् |
मातर्गङ्गे त्वयि यो भक्तः
किल तं द्रष्टुं न यमः शक्तः || 4 ||

पतितोद्धारिणि जाह्नवि गङ्गे
खण्डित गिरिवरमण्डित भङ्गे |
भीष्मजननि हे मुनिवरकन्ये
पतितनिवारिणि त्रिभुवन धन्ये || 5 ||

कल्पलतामिव फलदां लोके
प्रणमति यस्त्वां न पतति शोके |
पारावारविहारिणि गङ्गे
विमुखयुवति कृत तरलापाङ्गे || 6 ||

तव चेन्मातः स्रोतः स्नातः
पुनरपि जठरे सोपि न जातः |
नरकनिवारिणि जाह्नवि गङ्गे
कलुषविनाशिनि महिमोत्तुङ्गे || 7 ||

पुनरसदङ्गे पुण्यतरङ्गे
जय जय जाह्नवि करुणापाङ्गे |
इन्द्रमुकुटमणिराजितचरणे
सुखदे शुभदे भृत्यशरण्ये || 8 ||

रोगं शोकं तापं पापं
हर मे भगवति कुमतिकलापम् |
त्रिभुवनसारे वसुधाहारे
त्वमसि गतिर्मम खलु संसारे || 9 ||

अलकानन्दे परमानन्दे
कुरु करुणामयि कातरवन्द्ये |
तव तटनिकटे यस्य निवासः
खलु वैकुण्ठे तस्य निवासः || 10 ||

वरमिह नीरे कमठो मीनः
किं वा तीरे शरटः क्षीणः |
अथवाश्वपचो मलिनो दीनः
तव न हि दूरे नृपतिकुलीनः || 11 ||

भो भुवनेश्वरि पुण्ये धन्ये
देवि द्रवमयि मुनिवरकन्ये |
गङ्गास्तवमिमममलं नित्यं
पठति नरो यः स जयति सत्यम् || 12 ||

येषां हृदये गङ्गा भक्तिः
तेषां भवति सदा सुखमुक्तिः |
मधुराकन्ता पञ्झटिकाभिः
परमानन्दकलितललिताभिः || 13 ||

गङ्गास्तोत्रमिदं भवसारं
वाञ्छितफलदं विमलं सारम् |
शङ्करसेवक शङ्कर रचितं
पठति सुखीः तव इति च समाप्तः || 14 ||


|| Om tat sat ||