||Purusha Suktam||

पुरुषसूक्तं ॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||पुरुषसूक्तं॥

॥शांति मंत्रमु॥
ओम् तच्चं योरावृणीमहे।गातुं यज्ञाय। गातुं यज्ञपतये।
दैवी स्वस्तिरस्तु नः। स्वस्तिर्मानुषेभ्यः । ऊर्थ्वं जिगातु भेषजं।
शं नो अस्तु द्विपदे । शं चतुष्पदे॥
ओम् शांतिः शांतिः शांतिः॥

ओम् सहस्र शीर्षापुरुषः।
सहस्राक्षः सहस्रपात्।
सभूमिं विश्वतो वृत्वा।
अत्यतिष्ठत् दशांगुळम्॥1||

पुरुष ए वेदग्‍ं सर्वम्
यद्भूतं यच्चभव्यं।
उतामृतत्वस्येशानः।
यदन्नेनातिरोहति॥2||

एतावानस्य महिमा।
अतो ज्यायाग्‍श्च पूरुषः।
पादोऽस्य विश्वा भूतानि।
त्रिपादस्यामृतं दिवि॥3||

त्रिपादूर्ध्व उदैत्पुरुषः।
पादोऽस्येहाऽऽभवात्पुनः।
ततो विष्वज्‍व्यक्रामत्।
साशनानशने अभि॥4||

तस्मात् विराट् अजायत।
विराजो अधि पूरुषः।
स जातो अत्यरित्यत।
पश्चात् भूमिम् अधो पुरः॥5||

यत्पुरुषेण हविषा।
देवा यज्ञमतन्वत।
वसंतो अस्यासीदाज्यम्।
ग्रीष्म इध्मः शरत् हविः॥6||

सप्तास्यान् परिधयः।
त्रिः सप्त समिधः कृताः।
देवायद्यज्ञं तन्वानाः।
अबध्नुन्पुरुषं पशुम्॥7||

तं यज्ञं बर्हिषि प्रौक्षन्।
पुरुषं जातमग्रतः।
तेना देवा अजयंत।
साध्या ऋषयश्च ये॥8||

तस्मात् यज्ञात् सर्वहुतः।
संभृतं वृषद्राज्यम्।
पशूग्‍स्ताग्‍श्चक्रे वायव्यान्।
अरण्यान्ग्राम्याश्च ये॥9||

तस्मात् यज्ञात् सर्वहुतः।
ऋचः सामानि जज्ञिरे।
छंदाग्‍ंसि जज्ञरे तस्मात् ।
यजुः तस्मादजायत॥ 10||

तस्मादश्वा अजायंत।
ये के चोभयादतः।
गावो ह जज्ञिरे तस्मात्।
तस्मात् ज्जाता अजावयः॥11||

यत्पुरुषं व्यद्धुः।
कतिधा व्यकल्पयन्।
मुखं किमस्य कौ बाहू।
कावूरू पादावुच्येते॥12||

ब्राह्मणोऽस्य मुखमासीत्।
बाहू राजस्य कृतः।
ऊरू तदस्य यद्वैश्यः।
पद्भ्या‍ग्‍ं शूद्रो अजायत॥13||

चंद्रमा मनसो जातः ।
चक्षोः सूर्यो अजायत।
मुखादिंद्रश्चाग्निश्च।
प्राणाद्वायुरजायत॥14||

नाभ्यादासीत् अंतरिक्षम्।
शीर्षो द्यौः समवर्तत।
पद्भ्यां भूमिर्दिशः श्रोतात्।
तथा लोकाग्‍ं अकल्पयन्॥15||

 वेदाहमेतं पुरुषं महांतम्।
अदित्यवर्णं तमसस्तुपारे।
सर्वाणि रूपाणि विचित्य धीरः ।
नामानि कृत्वाऽभिवदन् यदास्ते॥16||

दाता पुरस्तात् यमुदाजहार।
शक्रः प्रविद्वान् प्रदिशश्चतस्रः।
तमेवं विद्वान् अमृत इह भवति।
नान्यः पंथा अयनाय विद्यते॥17||

यज्ञेन यज्ञमजयंत देवाः।
तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचंते।
यत्रपूर्वे स्वाध्याः संति देवाः॥18||

अद्भ्यः संभूतः पृथिव्यै रसाच्च।
विश्वकर्मणः समवर्तताधि।
तस्य त्वष्ठा विदधत् रूपमेति।
तत् पुरुषस्य विश्वमाजानमग्रे॥19||

वेदाहमेतं पुरुषं महान्तं।
आदित्यवर्णं तमसः परस्तात्।
तमेवं विद्वानमृत इह भवति।
नान्यः पंथा विद्यतेऽयनाय॥20||

प्रजापतिश्चरति गर्भे अंतः।
अजायमानो बहुथा विजायते।
तस्य धीराः परिजानंति योनिम्।
मरीचीनां पदमिच्चंति वेधसः॥ 21||

यो देवेभ्य अतपति।
यो देवानां पुरोहितः।
पूर्वो यो देवेभ्यो जातः।
नमो रुचाय ब्राह्मये॥22||

रुचं ब्राह्मं जनयंतः।
देवा अग्रे तदब्रुवन्।
यस्त्वैवं ब्राह्मणो विद्यात्।
तस्य देवा असन् वसे॥23||

ह्रीश्च ते लक्ष्मीश्च पत्न्यौ।
अहो रात्रे पार्श्वे।
नक्षत्राणि रूपम्।
अश्विनौ व्यात्तम्। 24||

इष्टं मनिषाण।
अमुं मनिषाण।
सर्वं मनिषाण॥ 25||

ओम् ।
तच्चं योरावृणी महे।
गातुं यज्ञाय। गातुं यज्ञपतये।
दैवी स्वस्तिरस्तु नः।
स्वस्तिर् मानुषेभ्यः।
ऊर्ध्वं जिगातु भेषजम्।
शं नो अस्तु द्विपदे।
शं चतुष्पदे।
ओं शांतिः शांतिः शांतिः ॥











|| Om tat sat ||